विश्वास-प्रस्तुतिः
अन्नाद्यं वा एतेनावरुन्धे यत्प्रउगम् ।
Haug
(On the Meaning of the Several Parts of the Pra-uga Śastra.)
By means of the Pra-uga Śāstra one obtains food.
मूलम्
अन्नाद्यं वा एतेनावरुन्धे यत्प्रउगम् ।
विश्वास-प्रस्तुतिः
अन्या ऽन्या देवता प्रउगे शस्यते ऽन्यदन्यदुक्थं प्रउगे क्रियते अन्यदन्यदस्यान्नाद्यं गृहेषु ध्रियते य एवं वेद ।
Haug
In (each part of) the Pra-uga Śāstra, there is always another deity praised, and (thus) always another being celebrated. He who has such a knowledge keeps different kinds of food in his Grahas.[5]
Haug - Notes
[5]The whole Pra-uga is intended for providing the sacrificer with food. A variety in food is produced by changing the deities in every part of the Śastra.
मूलम्
अन्या ऽन्या देवता प्रउगे शस्यते ऽन्यदन्यदुक्थं प्रउगे क्रियते अन्यदन्यदस्यान्नाद्यं गृहेषु ध्रियते य एवं वेद ।
विश्वास-प्रस्तुतिः
एतद्ध वै यजमानस्याध्यात्मतममिवोक्थं यत्प्रउगं तस्मादेनैनैतदुपेक्ष्यतममिवेत्याहुरेतेन ह्येनं होता संस्करोतीति ।
Haug
The Pra-uga Śastra is, as it were, most intimately connected with the sacrificer. Thence they say, the greatest attention is to be paid to it by the sacrificer. For by means of it the Hotar makes him (his new body) ready.
मूलम्
एतद्ध वै यजमानस्याध्यात्मतममिवोक्थं यत्प्रउगं तस्मादेनैनैतदुपेक्ष्यतममिवेत्याहुरेतेन ह्येनं होता संस्करोतीति ।
विश्वास-प्रस्तुतिः
वायव्यं शंसति तस्मादाहुर्वायुः प्राणः प्राणो रेतो रेतः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति ।
Haug
He repeats a triplet, addressed to Vāyu, because they say, life is Vāyu, seed is life. Seed is first produced (in the body) before a man is produced (out of it).
मूलम्
वायव्यं शंसति तस्मादाहुर्वायुः प्राणः प्राणो रेतो रेतः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति ।
विश्वास-प्रस्तुतिः
यद्वायव्यं शंसति प्राणमेवास्य तत्संस्करोति ।
Haug
By repeating a triplet addressed to Vāyu, the Hotar makes the prāṇa (air inhaled) of the sacrificer.
मूलम्
यद्वायव्यं शंसति प्राणमेवास्य तत्संस्करोति ।
विश्वास-प्रस्तुतिः
ऐन्द्रवायवं शंसति यत्र वाव प्राणस्तदपानः ।
Haug
He repeats a triplet, addressed to Indra and Vāyu. Where there is prāṇa (air inhaled), there is apāna (air exhaled).
मूलम्
ऐन्द्रवायवं शंसति यत्र वाव प्राणस्तदपानः ।
विश्वास-प्रस्तुतिः
यदैन्द्रवायवं शंसति प्राणापानावेवास्य तत्संस्करोति ।
Haug
By repeating a triplet, addressed to Indra and Vāyu, he thus makes the prāṇa and apāna of the sacrificer.
मूलम्
यदैन्द्रवायवं शंसति प्राणापानावेवास्य तत्संस्करोति ।
विश्वास-प्रस्तुतिः
मैत्रावरुणं शंसति तस्मादाहुश्चक्षुः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति ।
Haug
He repeats a triplet, addressed to Mitra-Varuṇa. That is done, because they say, the eye is first produced when a human being is being called into existence.
मूलम्
मैत्रावरुणं शंसति तस्मादाहुश्चक्षुः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति ।
विश्वास-प्रस्तुतिः
यन्मैत्रावरुणं शंसति चक्षुरेवास्य तत्संस्करोति ।
Haug
By repeating a triplet, addressed to Mitra-Varuṇa, he thus makes eyes to the sacrificer.
मूलम्
यन्मैत्रावरुणं शंसति चक्षुरेवास्य तत्संस्करोति ।
विश्वास-प्रस्तुतिः
आश्विनं शंसति तस्मात्कुमारं जातं संवदन्त उप वै शुश्रूषते नि वै ध्यायतीति ।
Haug
He repeats a triplet addressed to the Aśvins. Because parents say, in their conversations about a child when it is born, “it has the desire of listening (to us); it is very attentive.”
मूलम्
आश्विनं शंसति तस्मात्कुमारं जातं संवदन्त उप वै शुश्रूषते नि वै ध्यायतीति ।
विश्वास-प्रस्तुतिः
यदाश्विनं शंसति श्रोत्रामेवास्य तत्संस्करोति ।
Haug
By repeating a triplet, addressed to the Aśvins, he makes to the sacrificer the sense of hearing.
मूलम्
यदाश्विनं शंसति श्रोत्रामेवास्य तत्संस्करोति ।
विश्वास-प्रस्तुतिः
ऐन्द्रं शंसति तस्मात्कुमारं जातं संवदन्ते प्रतिधारयति वै ग्रीवा अथो शिर इति ।
Haug
He repeats a triplet, addressed to Indra. Because parents say, in their conversations about a child, when it is born, “it endeavours to raise its neck, then its head.”
मूलम्
ऐन्द्रं शंसति तस्मात्कुमारं जातं संवदन्ते प्रतिधारयति वै ग्रीवा अथो शिर इति ।
विश्वास-प्रस्तुतिः
यदैन्द्रं शंसति वीर्यमेवास्य तत्संस्करोति ।
Haug
By repeating a triplet, addressed to Indra, he makes to the sacrificer, strength.
मूलम्
यदैन्द्रं शंसति वीर्यमेवास्य तत्संस्करोति ।
विश्वास-प्रस्तुतिः
वैश्वदेवं शंसति तस्मात्कुमारो जातः पश्चेव प्रचरति ।
Haug
He repeats a triplet, addressed to Viśve Devāḥ. Because a child when it is born, uses hands and feet after (it has been able to use the eye, ear, and to raise its neck).
मूलम्
वैश्वदेवं शंसति तस्मात्कुमारो जातः पश्चेव प्रचरति ।
विश्वास-प्रस्तुतिः
वैश्वदेवानि ह्यङ्गानि ।
Haug
The limbs (for they are many) belong to the Viśve Devāḥ, i.e., All Gods.
मूलम्
वैश्वदेवानि ह्यङ्गानि ।
विश्वास-प्रस्तुतिः
यद्वैश्वदेवं शंसत्यङ्गान्येवास्य तत्संस्करोति ।
Haug
By repeating a triplet, addressed to the Viśve Devāḥ, he thus makes the limbs to the sacrificer.
मूलम्
यद्वैश्वदेवं शंसत्यङ्गान्येवास्य तत्संस्करोति ।
विश्वास-प्रस्तुतिः
सारस्वतं शंसति तस्मात्कुमारं जातं जघन्या वागाविशति ।
Haug
He repeats a triplet addressed to Sarasvatī. Because Speech enters the child, when it is born, last.
मूलम्
सारस्वतं शंसति तस्मात्कुमारं जातं जघन्या वागाविशति ।
विश्वास-प्रस्तुतिः
वाग्घि सरस्वती ।
Haug
Sarasvatī is speech.
मूलम्
वाग्घि सरस्वती ।
विश्वास-प्रस्तुतिः
यत्सारस्वतं शंसति वाचमेवास्य तत्संस्करोति ।
Haug
By repeating a triplet, addressed to Sarasvatī, he thus makes speech to the sacrificer.
मूलम्
यत्सारस्वतं शंसति वाचमेवास्य तत्संस्करोति ।
विश्वास-प्रस्तुतिः
एष वै जातो जायते सर्वाभ्य एताभ्यो देवताभ्यः सर्वेभ्य उक्थेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः प्रउगेभ्यः सर्वेभ्यः सवनेभ्यो य एवं वेद यस्य चैवं विदुष एतच्छंसन्ति ।
Haug
The Hotar who has such a knowledge, as well as the sacrificer for whom the Hotṛi priests repeat the recitations (Śastras), are, though already born (from their mother), born again from all these deities, from all the recitations (Śastras), from all the metres, from all the triplets of the Pra-uga Śastra, from all the (three) libations.
मूलम्
एष वै जातो जायते सर्वाभ्य एताभ्यो देवताभ्यः सर्वेभ्य उक्थेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः प्रउगेभ्यः सर्वेभ्यः सवनेभ्यो य एवं वेद यस्य चैवं विदुष एतच्छंसन्ति ।