अन्नाद्यं वा एतेनावरुन्द्धे यत्प्रउगामन्यान्या देवता प्रउगे शस्यतेऽन्यद्-अन्यदुक्थम्प्रउगे क्रियतेऽन्यदन्यदस्यान्नाद्यं ग्रहेषु ध्रियते य एवं वेदैतद्ध वै यजमानस्याध्यात्मतममिवोक्थं यत्प्रउगं तस्मादेनैनैतदुपेक्ष्यतममिवेत्याहुरेतेन ह्येनं होता संस्करोतीति वायव्यं शंसाति तस्मादाहुर्वायुः प्राणः प्राणो रेतो रेतः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यद्वायव्यं शंसति प्राणमेवास्य तत्संस्क-रोत्यैन्द्र वायवं शंसति यत्र वाव प्राणस्तदपानो यदैन्द्र वायवं शंसाति प्राणा-पानावेवास्य तत्संस्करोति मैत्रावरुणं शंसाति तस्मादाहुश्चक्षुः पुरुषस्य प्रथमं सम्भवतः सम्भवतीति यन्मैत्रावरुणं शंसति चक्षुरेवास्य तत्संस्करोत्याश्विनं शंसति तस्मात्कुमारं जातं संवदन्त उप वै शुश्रूषते नि वै ध्यायतीति यदाश्विनं शंसति श्रोत्रामेवास्य तत्संस्करोत्यैन्द्रं शंसति तस्मात्कुमारं जातं संवदन्ते प्रतिधारयति वै ग्रीवा अथो शिर इति यदैन्द्रं शंसति वीर्यमेवास्य तत्संस्करोति वैश्वदेवं शंसति तस्मात्कुमारो जातः पश्चेव प्रचरति वैश्वदेवानि ह्यङ्गानि यद्वैश्वदेवं शंसत्यङ्गान्येवास्य तत्संस्करोति सारस्वतं शंसति तस्मात्कुमारं जातं जघन्या वागाविशति वाग्घि सरस्वती यत्सारस्वतं शंसति वाचमेवास्य तत्संस्करोत्येष वै जातो जायते सर्वाभ्य एताभ्यो देवताभ्यः सर्वेभ्य उक्थेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः प्रउगेभ्यः सर्वेभ्यः सवनेभ्यो य एवं वेद यस्य चैवं
विदुष एतच्छंसन्ति २