०१

ग्रहोक्थं वा एतद्यत्प्रउगं नव प्रातर्ग्रहा गृह्यन्ते नवभिर्बहिष्पवमाने स्तुवते स्तुते स्तोमे दशमं गृह्णाति हिंकार इतरासां दशमः सो सा सम्मा वायव्यं शंसति तेन वायव्य उक्थवानैन्द्र वायवं शंसति तेनैन्द्र वायव उक्थवान्मैत्रावरुणं शंसति तेन मैत्रावरुण उक्थवानाश्विनं शंसति तेनाश्विन उक्थवानैन्द्रं शंसाति तेन शुक्रामन्थिना उक्थवन्तौ वैश्वदेवं शंसति तेनाग्रयण उक्थवान्सारस्वतं शंसति न सारस्वतो ग्रहोऽस्ति वाक्तु सरस्वती ये तु केच वाचा ग्रहा गृह्यन्ते

तेऽस्य सर्वे शस्तोक्था उक्थिनो भवन्ति य एवं वेद १