३२

चक्षूंषि वा एतानि सवनानां यत्तूष्णींशंसो भूरग्निर्ज्योतिर्ज्योतिरग्निरिति प्रातःसवनस्य चक्षुषी इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्र इति माध्यंदिनस्य सवनस्य चक्षुषी सूर्यो ज्योतिर्ज्योतिः स्वः सूर्य इति तृतीयसवनस्य चक्षुषी चक्षुष्मद्भिः सवनै राध्नोति चक्षुष्मद्भिः सवनैः स्वर्गं लोकमेति य एवं वेद चक्षुर्वा एतद्यज्ञस्य यत्तूष्णींशंस एका सती व्याहृतिर्द्वेधोच्यते तस्मादेकं सच्चक्षुर्द्वेधा मूलं वा एतद्यज्ञस्य यत्तूष्णींशंसो यं कामयेतानायतनवान्स्यादिति नास्य यज्ञे तूष्णींशंसं शंसेदुन्मूलमेव तद्यज्ञम्पराभवन्तमनु पराभवति तदु वा आहुः शंसेदेवापि वै तदृत्विजेऽहितां यद्धोता तूष्णींशंसं न शंसत्यृत्विजि हि सर्वो

यज्ञः प्रतिष्ठितो यज्ञे यजमानस्तस्माच्छंस्तव्यः शंस्तव्यः ३२