३२

विश्वास-प्रस्तुतिः

चक्षूंषि वा एतानि सवनानां यत्तूष्णींशंसो भूरग्निर्ज्योतिर्ज्योतिरग्निरिति प्रातःसवनस्य चक्षुषी इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्र इति माध्यंदिनस्य सवनस्य चक्षुषी सूर्यो ज्योतिर्ज्योतिः स्वः सूर्य इति तृतीयसवनस्य चक्षुषी ।

Haug

(On the Meaning of the Silent Praise.)

The “silent praise” are the eyes of the (three) libations. Bhûr agnir, &c., are the two eyes of the morning libation. Indro jyotir, &c., are the two eyes of the midday libation. Sûryo jyotir, &c., are the two eyes of the evening libation.

मूलम्

चक्षूंषि वा एतानि सवनानां यत्तूष्णींशंसो भूरग्निर्ज्योतिर्ज्योतिरग्निरिति प्रातःसवनस्य चक्षुषी इन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्र इति माध्यंदिनस्य सवनस्य चक्षुषी सूर्यो ज्योतिर्ज्योतिः स्वः सूर्य इति तृतीयसवनस्य चक्षुषी ।

विश्वास-प्रस्तुतिः

चक्षुष्मद्भिः सवनै राध्नोति चक्षुष्मद्भिः सवनैः स्वर्गं लोकमेति य एवं वेद ।

Haug

He who has such a knowledge, prospers by means of the three libations which are provided with eyes, and goes by means of such libations to the celestial world.

मूलम्

चक्षुष्मद्भिः सवनै राध्नोति चक्षुष्मद्भिः सवनैः स्वर्गं लोकमेति य एवं वेद ।

विश्वास-प्रस्तुतिः

चक्षुर्वा एतद्यज्ञस्य यत्तूष्णींशंस एका सती व्याहृतिर्द्वेधोच्यते तस्मादेकं सच्चक्षुर्द्वेधा ।

Haug

This “silent praise” is the eye of the sacrifice (the sacrificial man). There being only one of the “great words” (bhûr, bhuvaḥ, svar), (in the “silent praise” of every libation), it must be repeated twice, for, though the eye is (according to its substance) only one, it is double (in its appearance).

मूलम्

चक्षुर्वा एतद्यज्ञस्य यत्तूष्णींशंस एका सती व्याहृतिर्द्वेधोच्यते तस्मादेकं सच्चक्षुर्द्वेधा ।

विश्वास-प्रस्तुतिः

मूलं वा एतद्यज्ञस्य यत्तूष्णींशंसो यं कामयेतानायतनवान्स्यादिति नास्य यज्ञे तूष्णींशंसं शंसेदुन्मूलमेव तद्यज्ञम्पराभवन्तमनु पराभवति ।

Haug

The “silent praise” is the root of the sacrifice. Should a Hotar wish to deprive any sacrificer of his standing place, then he must not at his sacrifice repeat the “silent praise;” the sacrificer then perishes along with his sacrifice (the sacrificial personage) which thus has become rootless.

मूलम्

मूलं वा एतद्यज्ञस्य यत्तूष्णींशंसो यं कामयेतानायतनवान्स्यादिति नास्य यज्ञे तूष्णींशंसं शंसेदुन्मूलमेव तद्यज्ञम्पराभवन्तमनु पराभवति ।

विश्वास-प्रस्तुतिः

तदु वा आहुः शंसेदेवापि वै तदृत्विजे ऽहितां यद्धोता तूष्णींशंसं न शंसत्यृत्विजि हि सर्वो यज्ञः प्रतिष्ठितो यज्ञे यजमानस्तस्माच्छंस्तव्यः शंस्तव्यः ।

Haug

About this they say : the Hotar ought to recite (it at any rate); for it is for the priest’s own benefit when the Hotar repeats the “silent praise.” In the priest rests the whole sacrifice, and the sacrificer in the sacrifice. Thence the “silent praise,” ought to be repeated.

मूलम्

तदु वा आहुः शंसेदेवापि वै तदृत्विजे ऽहितां यद्धोता तूष्णींशंसं न शंसत्यृत्विजि हि सर्वो यज्ञः प्रतिष्ठितो यज्ञे यजमानस्तस्माच्छंस्तव्यः शंस्तव्यः ।