३१

देवा वै यदेव यज्ञेऽकुर्वंस्तदसुरा अकुर्वंस्ते समावद्वीर्या एवासन्न व्यावर्तन्त ततो वै देवा एतं तूष्णींशंसमपश्यंस्तमेषामसुरा नान्ववायंस्तूष्णींसारो वा एष यत्तूष्णींशंसो देवा वै यंयमेव वज्रमसुरेभ्य उदयछंस्तं-तमेषामसुराः प्रत्य-बुध्यन्त ततो वै देवा एतं तूष्णींशंसं वज्रमपश्यंस्तमेभ्य उदयछंस्तमेषामसुरा न प्रत्यबुध्यन्त तमेभ्यः प्राहरंस्तेनैनानप्रतिबुद्धेनाघ्नंस्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद ते वै देवा विजितिनो मन्यमाना यज्ञमतन्वत तमेषामसुरा अभ्यायन्यज्ञवेशसमेषां करिष्याम इति तान्समन्तमेवोदारान्परियत्तानुदपश्यंस्तेऽब्रुवन्संस्थापयामेमं यज्ञं यज्ञं नोऽसुरा मा वधिषुरिति तथेति तं तूष्णींशंसे संस्थापय-न्भूरग्निर्ज्योतिर्ज्योतिरग्निरित्याज्यप्रउगे संस्थापयन्निन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्र इति निष्केवल्यमरुत्वतीये संस्थापयन्सूर्यो ज्योतिर्ज्योतिः स्वः सूर्य इति वैश्वदेवाग्निमारुते संस्थापयंस्तमेवं तूष्णींशंसे संस्थापयंस्तमेवं तूष्णींशंसे संस्थाप्य तेनारिष्टेनोदृचमाश्नुवत स तदा वाव यज्ञः संतिष्ठते यदा होता तूष्णींशंसं शंसति स य एनं शस्ते तूष्णींशंस उप वा वदेदनु वा व्याहरेत्तम्ब्रूयादेष एवैतामार्तिमारिष्यति प्रातर्वाव वयमद्येमं शस्ते तूष्णींशंसे संस्थापयामस्तं यथा गृहानितं कर्मणानुसमियादेवमेवैनमिदमनुसमिम इति सो ह वाव तामार्तिमृछति य एवं विद्वान्संशस्ते तूष्णींशंस उप वा वदत्यनु

वा व्याहरति तस्मादेवं विद्वान्संशस्ते तूष्णींशंसे नोपवदेन्नानुव्याहरेत् ३१