प्राणा वै द्विदेवत्याः पशव इळा द्विदेवत्यान्भक्षयित्वेळामुपह्वयते पशवो वा इळा पशूनेव तदुपह्वयते पशून्यजमाने दधाति तदाहुरवान्तरेळाम्पूर्वाम्प्रा-श्नीयाद्धोतृचमसम्भक्षयेदिति अवान्तरेळामेव पूर्वाम्प्राश्नीयादथ होतृचम-सम्भक्षयेद्यद्वाव द्विदेवत्यान्पूर्वान्भक्षयति तेनास्य सोमपीथः पूर्वो भक्षितो भवति तस्मादवन्तरेळमेव पूर्वाम्प्राश्नीयादथ होतृचमसम्भक्षयेत्तदुभयतो-ऽन्नाद्यम्परिगृह्णाति सोमपीथाभ्यामन्नाद्यस्य परिगृहीत्यै प्राणा वै द्विदेवत्या आत्मा होतृचमसो द्विदेवत्यानां संस्रवान्होतृचमसे समवनयत्यात्मन्येव
तद्धोता प्राणान्समवनयते सर्वायुः सर्वायुत्वाय सर्वमायुरेति य एवं वेद ३०