प्राणा वा ऋतुयाजास्तद्यदृतुयाजैश्चारन्ति प्राणानेव तद्यजमाने दधति षळ् ऋतुनेति यजन्ति प्राणमेव तद्यजमाने दधति चत्वार ऋतुभिरिति यजन्त्यपानमेव तद्यजमाने दधति द्विरृतुनेत्युपरिष्टाद्व्यानमेव तद्यजमाने दधति स वा अयम्प्राणस्त्रेधा विहितः प्राणोऽपानो व्यान इति तद्यदृतुन ऋतुभिरृतुनेति यजन्ति प्राणानां संतत्यै प्राणानामव्यवछेदाय प्राणा वा ऋतुयाजा नर्तुयाजानामनुवषट्कुर्यादसंस्थिता वा ऋतव एकैक एव यदृतुयाजा-नामनुवषट्कुर्यादसांस्थितानृतून्संस्थापयेत्संस्था वा एषा यदनुवषट्कारो य एनं तत्र ब्रूयादसंस्थितानृतून्समतिष्ठिपद्दुष्षमम्भविष्यतीति शश्वत्तथा स्यात्तस्मान्नर्तुयाजानामनुवषट्कुर्यात् २९