प्राणा वै द्विदेवत्या अनवानं द्विदेवत्यान्याजेत्प्राणानां संतत्यै प्राणानामव्य-वछेदाय प्राणा वै द्विदेवत्या न द्विदेवत्यानामनुवषट्कुर्यद्यद्द्विदेवत्या-नामनुवषट्कुर्यादसंस्थितान्प्राणान्संस्थापयेत्संस्था वा एषा यदनुवषट्कारो य एनं तत्र ब्रूयादसंस्थितन्प्राणान्समतिष्ठिपत्प्राण एनम्हास्यतीति शश्वत्तथा स्या-त्तस्मान्न द्विदेवत्यानामनुवषट्कुर्यात्तदाहुर्द्विरागूर्य मैत्रावरुणो द्विः प्रेष्यति सकृइदागूर्य होता द्विर्वषट्करोति का होतुरागूरिति प्राणा वै द्विदेवत्या आगूर्वज्रस्तद्यधोतान्तरेणागुरेतागुरा वज्रेण यजमानस्य प्राणान्वीयाद्य एनां तत्र ब्रूयादागुरा वाज्रेण यजमानस्य प्राणान्व्यगात्प्राण एनं हास्यतीति शश्वत्तथा स्यात्तस्मात्तत्र होतान्तरेण नागुरेतथो मनो वै यज्ञस्य मैत्रावरुणो वाग्यज्ञस्य होता मनसा वा इषिता वाग्वदति यां ह्यन्यमना वाचं वदत्यसुर्या वै सा वागदे
वजुष्टा तद्यदेवात्र मैत्रावरुणो द्विरागुरते सैव होतुरागूः २८