प्राणा वै द्विदेवत्या एकपात्रा गृह्यन्ते तस्मात्प्राणा एकनामानो द्विपात्रा हूयन्ते तस्मात्प्राणा द्वन्द्वं येनैवाध्वर्युर्यजुषा प्रयछति तेन होता प्रतिगृह्णात्येष वासुः पुरूवसुरिह वसुः पुरूवसुर्मयि वसुः पुरूवसुर्वाक्पा वाचम्मे पाहीत्यैन्द्र -वायवम्भक्षयत्युपहूता वाक्सह प्राणेनोप मां वाक्सह प्राणेन ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति प्राणा वा ऋषयो दैव्यासस्तानूपावानस्तन्व-स्तपोजास्तानेव तदुपह्वयत एष वसुर्विदद्वसुरिह वसुर्विदद्वसुर्मयि वसु-र्विदद्वसुश्चक्षुष्पाश्चक्षुर्मे पाहीति मैत्रावरुणम्भक्षयत्युपहूतां चक्षुः सह मनसोप मां चक्षुः सह मनसा ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति प्राणा वा ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजास्तानेव तदुपह्वयत एष वसुः संयद्वसुरिह वसुः संयद्वसुर्मयि वसुः संयद्वसुः श्रोत्रापाः श्रोत्रम्मे पाहीत्याश्विनाम्भक्षय-त्युपहूतं श्रोत्रं सहात्मनोप मां श्रोत्रं सहात्मना ह्वयातमुपहूता ऋषयो दैव्या-सस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्तां तनूपावान-स्तन्वस्तपोजा इति प्राणा वा ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजास्तानेव तदुपह्वयते पुरस्तात्प्रत्यञ्चमैन्द्र वायवम्भक्षयति तस्मात्पुरस्तात्प्राणापानौ पुर-स्तात्प्रत्यञ्चम्मैत्रावरुणम्भक्षयति तस्मात्पुरस्ताच्चक्षुषी सर्वतः परिहारमाश्विनम्भक्षयति तस्मान्मनुष्याश्च पशवश्च सर्वतो वाचं वदन्तीं शृण्वन्ति २७