ते वा एते प्राणा एव यद्द्विदेवत्या वाक्च प्राणश्चैन्द्र वायवश्चक्षुश्च मनश्च मैत्रावरुणः श्रोत्रं चात्मा चाश्विनास्तस्य हैतस्यैन्द्र वायवस्याप्येकेऽनुष्टुभौ पुरोनुवाक्ये कुर्वन्ति गायत्र्! यौ याज्ये वाक्च वा एष प्राणाश्च ग्रहो यदैन्द्र वायवस्तदपि छन्दोभ्यां यथायथं क्लप्स्येते इति तत्तन्नादृत्यं व्यृद्धं वा एतद्यज्ञे क्रियते यत्र पुरोनुवाक्या ज्यायसी याज्यायै यत्र वै याज्या ज्यायसि तत्समृद्धमथो यत्र सामे यस्यो तत्कामाय तथा कुर्यात्प्राणस्य च वाचश्चात्रैव तदुपाप्तं वायव्या पूर्वा पुरोनुवाक्यैन्द्र वायव्युत्तरैवं याज्ययोः सा या वायव्या तया प्राणं कल्पयति वायुर्हि प्राणोऽथ यैन्द्र वायवी तस्यै यदैन्द्र म्पदं तेन वाचं कल्पयति वाग्घ्यैन्द्र् युपो तं काममाप्नोति यः प्राणे च वाचि च न यज्ञे विषमं
करोति २६