२५

देवा वै सोमस्य राज्ञोऽग्रपेये न समपादयन्नहम्प्रथमः पिबेयमहम्प्रथमः पिबेयमित्येवाकामयन्त ते सम्पादयन्तोऽब्रुवन् हन्ताजिमायाम स यो न उज्जेष्यति स प्रथमः सोमस्य पास्यतीति तथेति त आजिमायुस्तेषामाजिं यतामभिसृष्टानां वायुर्मुखम्प्रथमः प्रत्यपद्यताथेन्द्रो ऽथ मित्रावरुणावथाश्विनाउ सोऽवेदिन्द्रो वायुमुद्वै जयतीति तमनुपरापतत्सह नावथोज्जयावेति स नेत्यब्रवीदहमेवोज्जेष्यामीति तृतीयम्मेऽथोज्जयावेति नेति हैवाब्रवीदहमेवो-ज्जेष्यामीति तुरीयम्मेऽथोज्जयावेति तथेति तं तुरीयेऽत्यार्जत तत्तुरीयभागि-न्द्रो ऽभवत्त्रिभाग्वायुस्तौ सहैवेन्द्र वायू उदजयतां सह मित्रावरुणौ सहाश्विनौ त एषामेते यथोज्जितम्भक्षा इन्द्र वाय्वोः प्रथमोऽथ मित्रावरुणयोरथाश्विनोः स एष इन्द्र तुरीयो ग्रहो गृह्यते यदैन्द्र वायवस्तदेतदृषिः पश्यन्नभ्यनूवाच नियुत्वाँ इन्द्र सारथिरिति तस्माद्धाप्येतर्हि भरताः सत्वनां वित्तिम्प्रयन्ति तुरीये हैव

संग्रहीतारो वदन्तेऽमुनैवानूकाशेन यदद इन्द्रः सारथिरिव भूत्वोदजयत् २५