२४

यो वै यज्ञं हविष्पङ्क्तिं वेद हविष्पङ्क्तिना यज्ञेन राध्नोति धानाः करम्भः परिवापः पुरोळाशः पयस्येत्येष वै यज्ञो हविष्पङ्क्तिर्हविष्पङ्क्तिना यज्ञेन राध्नोति य एवं वेद यो वै यज्ञमक्षरपङ्क्तिं वेदाक्षरपङ्क्तिना यज्ञेन राध्नोति सु मत्पद्वग्द इत्येष वै यज्ञोऽक्षरपङ्क्तिरक्षरपङ्क्तिना यज्ञेन राध्नोति य एवं वेद यो वै यज्ञं नराशंसपङ्क्तिं वेद नराशंसपङ्क्तिना यज्ञेन राध्नोति द्विनाराशंसम्प्रातःसवनं द्विनाराशंसा-म्माध्यंदिनं सवनं सकृन्नाराशंसं तृतीयसवनमेष वै यज्ञो नराशंसपङ्क्ति-र्नराशंसपङ्क्तिना यज्ञेन राध्नोति य एवं वेद यो वै यज्ञं सवनपङ्क्तिं वेद सवनपङ्क्तिना यज्ञेन राध्नोति पशुरुपवसथे त्रीणि सवनानि पशुरनूबन्ध्य इत्येष वै यज्ञः सवनपङ्क्तिः सवनपङ्क्तिना यज्ञेन राध्नोति य एवं वेद हरिवाँ इन्द्रो धाना अत्तु पूषण्वान्करम्भं सरस्वतीवान्भारतीवान्परिवाप इन्द्र स्यापूप इति हवि-ष्पंक्त्या यजत्यृक्सामे वा इन्द्र स्य हरी पशवः पूषान्नं करम्भः सरस्वतीवा-न्भारतीवानिति वागेव सरस्वती प्राणो भरतः परिवाप इन्द्र स्यापूप इत्यन्नमेव परिवाप इन्द्रि यमपूप एतासामेव तद्देवतानां यजमानं सायुज्यं सरूपतां सलोकतां गमयति गछति श्रेयसः सायुज्यं गछति श्रेष्ठतां य एवं वेद हविरग्ने वीहीत्यनुससवनम्पुरोळाशस्विष्टकृतो यजत्यवत्सारो वा एतेनाग्नेः प्रियं धा-मोपागछत्स परमं लोकमजयदुपाग्नेः प्रियं धाम गछति जयति परमं लोकं य एवं वेद यश्चैवं विद्वानेतया हविष्पङ्क्त्या यजते यजतीति च यजतीति च २४