देवानां वै सवनानि नाध्रियन्त त एतान्पुरोळाशानपश्यंस्ताननुसवनं निरवप-न्सवनानां धृत्यै ततो वै तानि तेषामध्रियन्त तद्यदनुसवनम्पुरोळाशा निरुप्यन्ते सवनानामेव धृत्यै तथा हि तानि तेषामध्रियन्त पुरो वा एतान्देवा अक्रत यत्पु-रोळाशास्तत्पुरोळाशानाम्पुरोळाशत्वं तदाहुरनुसवनम्पुरोळाशान्निर्वपेदष्टा-कपालम्प्रातःसवन एकादशकपालम्माध्यंदिने सवने द्वादशकपालं तृती-यसवने तथा हि सवनानां रूपं तथा छन्दसामिति तत्तन्नादृत्यमैन्द्रा वा एते सर्वे निरुप्यन्ते यदनुसवनम्पुरोळासास्तस्मात्तानेकादशकपालानेव निर्वपेत्त-दाहुर्यतो घृतेनानक्तं स्यात्ततः पुरोळाशस्य प्राश्नीयात्सोमपीथस्य गुप्त्यै घृतेन हि वज्रेणेन्द्रो वृत्रमहन्निति तत्तन्नादृत्यं हविर्वा एतद्यदुत्पूतं सोमपीथो वा एष यदुत्पूतं तस्मात्तस्य यत एव कुतश्च प्राश्नीयात्सर्वतो वा एताः स्वधा यजमानमुपक्षरन्ति यदेतानि हवींष्याज्यं धानाःकरम्भः परिवापः पुरोळाशः
पयस्येति सर्वत एवैनं स्वधा उपक्षरन्ति य एवं वेद २३