तदाहुः सर्पेन्न सर्पेदिति सर्पेदिति हैक आहुरुभयेषां वा एष देवमनुष्याणाम्भक्षो यद्बहिष्पवमानस्तस्मादेनमभिसंगछन्त इति वदन्तस्तत्तन्नादृत्यं यत्सर्पेदृचमेव तत्साम्नोऽनुवर्त्मानं कुर्याद्य एनं तत्र ब्रूयादनुवर्त्मा न्वा अयं होता साम-गस्याभूदुद्गातरि यशोऽधादच्योष्टायतनाच्च्योष्यत आयतनादिति शश्वत्तथा स्यात्तस्मात्तत्रैवासीनोऽनुमन्त्रयेत यो देवानामिह सोमपीथो यज्ञे बर्हिषि वेद्याम् तस्यापि भक्षयामसीत्येवमु हास्यात्मा सोमपीथादनन्तरितो भवत्यथो ब्रूयान् मुखमसि मुखम्भूयासामिति मुखं वा एतद्यज्ञस्य यद्बहिष्पवमानो मुखं स्वेषु भवति श्रेष्ठः स्वानाम्भवति य एवं वेदासुरी वै दिर्घजिह्वी देवानाम्प्रातः-सवनमवालेट्तद्व्यमाद्यत्ते देवाः प्राजिज्ञासन्त ते मित्रावरुणावब्रुवन्युवमिदं निष्कुरुतमिति तौ तथेत्यब्रूतां तौ वै वो वरं वृणावहा इति वृणाथामिति तावेतमेव वरमवृणाताम्प्रातःसवने पयस्यां सैनयोरेषाच्युता वरवृता ह्येनायोस्तद्यदस्यै विमत्तमिव तदस्यै समृद्धं विमत्तमिव हि तौ तया निरकुरुताम् २२