शिरो वा एतद्यज्ञस्य यत्प्रातरनुवाकः प्राणापाना उपांश्वन्तर्यामौ वज्र एव वाङ्नाहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत यदहुतयोरुपांश्वन्तर्यामयो-र्होता वाचं विसृजेत वाचा वज्रेण यजमानस्य प्राणान्वीयाड्य एनं तत्र ब्रूया-द्वाचा वज्रेण यजमानस्य प्राणान्व्यगात्प्राण एनं हास्यतीति शश्वत्तथा स्यात्त-स्मान्नाहुतयोरुपांश्वन्तर्यामयोर्होता वाचं विसृजेत प्राणं यछ स्वाहा त्वा सुहव सूर्यायेत्युपांशुमनुमन्त्रयेत तमभिप्रानेत् प्राण प्राणम्मे यछेत्यापनां यछ स्वाहा त्वा सुहव सूर्यायेत्यन्तर्याममनुमन्त्रयेत तमभ्यपानेदपानापानम्मे यछेति व्या-नाय त्वेत्युपांशुसवनं ग्रावाणमभिमृश्य वाचं विसृजत आत्मा वा उपांशुसवन आत्मन्येव तद्धोता प्राणान्प्रतिधाय वाचं विसृजते सर्वायुः सर्वायुत्वाय
सर्वमायुरेति य एवं वेद २१