२०

ता एता नवानन्तरायमन्वाह हिनोता नो अध्वरं देवयज्येति दशमी-मावर्वृततीरध नु द्विधारा इत्यवृत्तास्वेकधनासु प्रति यदापो अदृश्रमायतीरिति प्रतिदृश्यमानास्वा धेनवः पयसा तूर्ण्यर्था इत्युपायतीषु समन्या यन्त्युप य-न्त्यन्या इति समायतीष्वापो वा अस्पर्धन्त वयम्पूर्वं यज्ञं वक्ष्यामो वयमिति याश्चेमाः पूर्वेद्युर्वसतीवर्यो गृह्यन्ते याश्च प्रातरेकधनास्ता भृगुरपश्यदापो वै स्पर्धन्त इति ता एतयर्चा समज्ञपयत्समन्या यन्त्युप यन्त्यन्या इति ताः समजानत संजानाना हास्यापो यज्ञं वहन्ति य एवं वेदापो न देवीरुप यन्ति होत्रियमिति होतृचमसे समवनीयमानास्वन्वाह वसतीवरीष्वेकधनासु चा-वेरपोऽध्वर्या उ इति होताध्वर्युम्पृछत्यापो वै यज्ञोऽविदो यज्नामित्येव तदाहोतेमनन्नमुरित्यध्वर्युः प्रत्याहोतेमाः पश्येत्येव तदाह तास्वध्वर्यो ईन्द्रा य सोमं सोता मधुमन्तम्वृष्टिवनिं तीव्रान्तम्बहुरमध्यं वसुमते रुद्र वत आदित्यवत ऋभुमते विभुमते वाजवते बृहस्पतिवते विश्वदेव्यावते यस्येन्द्रः पीत्वा वृत्राणि जाङ्घनत्प्र स जन्यानि तारिषोमिति प्रत्युत्तिष्ठति प्रत्युत्थेया वा आपः प्रति वै श्रेयांसामायन्तमुत्तिष्ठन्ति तस्मात्प्रत्युत्थेया अनुपर्यावृत्या आनु वै श्रेयां-सम्पर्यावर्तन्ते तस्नादनुपर्यावृत्या अनुब्रुवतैवानुप्रपत्तव्यमीश्वरो ह यद्यप्यन्यो यजेताथ होतारं यशोऽर्तोस्तस्मादनुब्रुवतैवानुप्रपत्तव्यमम्बयो यन्त्यध्वभिरि-त्येतामनुब्रुवन्ननुप्रपद्येत जामयो अध्वरीयताम्पृञ्चतीर्मधुना पय इति योऽमधव्यो यशोऽर्तोर्बुभूषेदमूर्या उप सूर्ये याभिर्वा सूर्यः सहेति तेजस्कामो ब्रह्मवर्चसका-मोऽपो देवीरुप ह्वये यत्र गावः पिबन्ति न इति पशुकामस्ता एताः सर्वा एवानुब्रुवन्ननुप्रपद्येतैतेषां कामानामवरुद्ध्या एतान्कामानवरुन्द्धे य एवं वेदैमा अग्मन्रेवतीर्जीवधन्या इति साद्यमानास्वन्वाह वसतीवरीष्वेकधनासु चाग्मन्नाप उशातीर्बर्हिरेदमिति सन्नासु स एतया परिदधाति २०