१९

ऋषयो वै सरस्वत्यां सत्रम् आसत।
ते कवषम् ऐलूषं सोमाद् अनयन् -
“दास्याः पुत्रः कितवो ऽब्राह्मणः,
कथं नो मध्ये ऽदीक्षिष्टे"ति।

विश्वास-टिप्पनी

Someone called dAsIputra or shUdra has two explanations - 1 insult, or 2 accurate description. Even if it was 2, it wouldn’t mean that kavaSha was a non-dvija. A dvija woman could well have fallen on hard times and become a dAsI (like vinatA or draupadI). Main disqualifier in “दास्याः पुत्रः कितवो ऽब्राह्मणः, कथं नो मध्ये ऽदीक्षिष्टे"ति। would be कितवो ऽब्राह्मणः. The sages thought kavaSha didn’t know brahman and was a fraud. To even presume to want to be a yajamAna in a satra requires one to have some basic qualification. It would be audacious otherwise. So, presumably, kavaSha obviously had some passable status - just not good enough in the eyes of the sages.

तम् बहिर् धन्वोदवहन्न् -
“अत्रैनम् पिपासा हन्तु
सरस्वत्या उदकम् मा पादी"ति।
स बहिर् धन्वोदूळ्हः
पिपासया वित्त
एतद् अपोनप्त्रीयम् अपश्यत् -
“प्र देवत्रा ब्रह्मणे गातुर् एत्व्” इति।

तेनापाम् प्रियं धामोपागछत्।
तम् आपोऽनूदायंस्,
तं सरस्वती समन्तम् पर्यधावत्।

तस्माद् धा ऽप्य् एतर्हि परिसारकम् इत्य् आचक्षते।
यद् एनं सरस्वती समन्तम् परिससार
ते वा ऋषयो ऽब्रुवन् -

विदुर् वा इमां देव
उपेमं ह्वयामहा

इति।

तथेति तम् उपह्वयन्त।
तम् उपहूयैतद् अपोनप्त्रीयम् अकुर्वत -
“प्र देवत्रा ब्रह्मणे गातुर्” एत्व् इति।

तेनापाम् प्रियं धामोपागछन्न्
उप देवानाम् उपापाम् प्रियं धाम गछत्य्
उप देवानां जयति परमं लोकं
य एवं वेद
यश्चैवं विद्वान् एतद् अपोनप्त्रीयं कुरुते।

तत्संततमनुब्रूयात्संततवर्षी ह प्रजाभ्यः पर्जन्यो भवति यत्रैवं विद्वाइनेतत्संततमन्वाह यदवग्राहमनुब्रूयाज्जीमूतवर्षी ह प्रजाभ्यः पर्जन्यः स्यात्तस्मात्तत्संततमेवानूच्यं तस्य त्रिः प्रथमां संततमन्वाह तेनैव तत्सर्वं

संततमनूक्तम्भवति १९