१८

तदाहुः कथमनूच्यः प्रातरनुवाक इति यथाछन्दसमनूच्यः प्रातरनुवकाः प्रजापतेर्वा एतान्यङ्गानि यच्छन्दांस्येष उ एव प्रजापतिर्यो यजते तद्यजमानाय हितम्पच्छोऽनूच्यः प्रातरनुवाकश्चतुष्पादा वै पशवः पशूनामवरुद्ध्या अर्धर्चश एवानूच्यो यथैवैनमेतदन्वाह प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशावो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति तस्मादर्धर्चश एवानूच्यस्तदाहुर्यद्व्यूळ्हः प्रातरनुवकः कथमव्यूळ्हो भवतीति यदेवास्य बृहती मध्यान्नैतीति ब्रूयात्तेनेत्याहुतिभागा वा अन्या देवता अन्याः स्तोमभागा-श्छन्दोभागास्ता या अग्नावाहुतयो हूयन्ते ताभिराहुतिभागाः प्रीणात्यथ यत्स्तुवन्ति च शंसन्ति च तेन स्तोमभागाश्छन्दोभागा उभय्यो हास्यैता देवताः प्रीता अभीष्टा भवन्ति य एवं वेद त्रयस्त्रिंशद्वै देवाः सोमपास्त्रयस्त्रिंशदसोमपा अष्टौ वसव एकादश रुन्द्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्चैते देवा सोमपा एकादश प्रयाजा एकादशानुयाजा एकादशोपयाजा एतेऽसोमपाः पशुभाजनाः सोमेन सोमपान्प्रीणाति पशुनासोमपानुभय्यो हास्यैता देवताः प्रीताः अभीष्टा भवन्ति य एवं वेदाभूदुषा रुशत्पशुरित्युत्तमया परिदधाति तदाहुर्यत्त्रीन्क्रतूनन्वाहाग्नेयमुषस्यमाश्विनं कथमस्यैकयर्चा परिदधतः सर्वे त्रयः क्रतवः परिहिता भवन्तीत्यभूदुषा रुशत्पशुरित्युषसो रूपमाग्निरधाय्यृ-त्विय इत्यग्नेरयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवमि-त्यश्विनोरेवमु हास्यैकयर्चा परिदधतः सर्वे त्रयः क्रतवः परिहिता भवन्ति

भवन्ति १८