शतमनूच्यमायुष्कामस्य शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रि य आयुष्येवैनं तद्वीर्य इन्द्रि ये दधाति त्रीणि च शतानि षष्टिश्चानूच्यानि यज्ञकामस्य त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि तावान्संवत्सरः संवत्सरः प्रजापतिः प्रजा-पतिर्यज्ञ उपैनं यज्ञो नमति यस्यैवं विद्वांस्त्रीणि च शतानि षष्टिं चान्वाह सप्त च शतानि विंशतिश्चानूच्यानि प्रजापशुकामस्य सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्रास्तावान्संवत्सरः संवत्सरः प्रजापतिर्यम्प्रजायमानं विश्वं रूपमिदं अनुप्रजायते प्रजापतिमेव तत्प्रजायमानम्प्रजया पशुभिरनुप्रजायते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेदाष्टौ शतान्यनूच्यान्यब्राह्मणोक्तस्य यो वा दुरुक्तोक्तः शमलगृहीतो यजेताष्टाक्षरा वै गायत्री गायत्र्या वै देवाः पाप्मानं शमलमपाघ्नत गायत्र्यैवास्य तत्पाप्मानं शमलमपहन्त्यप पाप्मानं हते य एवं वेद सहस्रमनूच्यं स्वर्गकामस्य सहस्राश्वीने वा इतः स्वर्गो लोकः स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्या अपरिमितमनूच्यमपरिमितो वै प्रजापतिः प्रजापतेर्वा एतदुक्थं यत्प्रातरनुवाकस्तस्मिन्सर्वे कामा अवरुध्यन्ते स यद-परिमितमन्वाह सर्वेषां कामानामवरुद्ध्यै सर्वान्कामानवरुन्द्धे य एवं वेद तस्मादपरिमितमेवानूच्यं सप्ताग्नेयानि छन्दांस्यन्वाह सप्त वै देवलोकाः सर्वेषु देवलोकेषु राध्नोति य एवं वेद सप्तोषस्यानि छन्दांस्यन्वाह सप्त वै ग्राम्याः पशवोऽव ग्राम्यान्पशून्रुन्द्धे य एवं वेद सप्ताश्विनानि छन्दांस्यन्वाह सप्तधा वै वागवदत्तावद्वै वागवदत्सर्वस्यै वाचः सर्वस्य ब्रह्मणः परिगृहीत्यै तिस्रो देवता
अन्वाह त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै १७