विश्वास-प्रस्तुतिः
शतमनूच्यमायुष्कामस्य ।
Haug
He who wishes for long life, should repeat a hundred verses.
मूलम्
शतमनूच्यमायुष्कामस्य ।
विश्वास-प्रस्तुतिः
शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रिय ।
Haug
For the (full) life of man is a hundred (years); he has (besides) a hundred powers, and a hundred senses.[16]
Haug - Notes
[16]According to Sây, the number of “a hundred” for the senses is to be obtained, if the senses are stated at ten, and if to each of them ten tubular vessels, in which they move, are ascribed.
मूलम्
शतायुर्वै पुरुषः शतवीर्यः शतेन्द्रिय ।
विश्वास-प्रस्तुतिः
आयुष्येवैनं तद्वीर्य इन्द्रिये दधाति ।
Haug
(By repeating one hundred verses), the priest secures to the sacrificer his full age, his (mental and bodily) powers, and his senses.
मूलम्
आयुष्येवैनं तद्वीर्य इन्द्रिये दधाति ।
विश्वास-प्रस्तुतिः
त्रीणि च शतानि षष्टिश्चानूच्यानि यज्ञकामस्य ।
Haug
He who wishes for (performing successfully the subsequent great) sacrifices, should repeat 360 verses.
मूलम्
त्रीणि च शतानि षष्टिश्चानूच्यानि यज्ञकामस्य ।
विश्वास-प्रस्तुतिः
त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि ।
Haug
For the year consists of 360 days;
मूलम्
त्रीणि च वै शतानि षष्टिश्च संवत्सरस्याहानि ।
विश्वास-प्रस्तुतिः
तावान्संवत्सरः ।
Haug
such a year (is meant here).
मूलम्
तावान्संवत्सरः ।
विश्वास-प्रस्तुतिः
संवत्सरः प्रजापतिः ।
Haug
The year is Prajāpati.
मूलम्
संवत्सरः प्रजापतिः ।
विश्वास-प्रस्तुतिः
प्रजापतिर्यज्ञ ।
Haug
Prajāpati is the sacrifice.
मूलम्
प्रजापतिर्यज्ञ ।
विश्वास-प्रस्तुतिः
उपैनं यज्ञो नमति यस्यैवं विद्वांस्त्रीणि च शतानि षष्टिं चान्वाह ।
Haug
The intelligent Hotar who recites 360 verses, turns (in this way) the sacrifice (regarded as a divine being, the mediator between gods and men) towards the sacrificer.
मूलम्
उपैनं यज्ञो नमति यस्यैवं विद्वांस्त्रीणि च शतानि षष्टिं चान्वाह ।
विश्वास-प्रस्तुतिः
सप्त च शतानि विंशतिश्चानूच्यानि प्रजापशुकामस्य ।
Haug
He who wishes for children and cattle, should repeat 720 verses.
मूलम्
सप्त च शतानि विंशतिश्चानूच्यानि प्रजापशुकामस्य ।
विश्वास-प्रस्तुतिः
सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्राः ।
Haug
For so many days and nights make a year (one of 360 days).
मूलम्
सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्राः ।
विश्वास-प्रस्तुतिः
तावान्संवत्सरः संवत्सरः प्रजापतिर्यम्प्रजायमानं विश्वं रूपमिदं अनुप्रजायते ।
Haug
Prajāpati is the year. For, after he is produced (prajāyamāna), the whole universe is produced (prajāyate).[17]
Haug - Notes
[17]He is the creator.
मूलम्
तावान्संवत्सरः संवत्सरः प्रजापतिर्यम्प्रजायमानं विश्वं रूपमिदं अनुप्रजायते ।
विश्वास-प्रस्तुतिः
प्रजापतिमेव तत्प्रजायमानम्प्रजया पशुभिरनुप्रजायते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद ।
Haug
He who has such a knowledge, obtains, if being born after Prajāpati (by means of the sacrifice), children and cattle.
मूलम्
प्रजापतिमेव तत्प्रजायमानम्प्रजया पशुभिरनुप्रजायते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद ।
विश्वास-प्रस्तुतिः
अष्टौ शतान्यनूच्यान्यब्राह्मणोक्तस्य यो वा दुरुक्तोक्तः शमलगृहीतो यजेत ।
Haug
If any one who is not recognized as a Brahman, or one who has a bad reputation on account of being charged with crimes, should bring a sacrifice, then 800 verses should be repeated.
मूलम्
अष्टौ शतान्यनूच्यान्यब्राह्मणोक्तस्य यो वा दुरुक्तोक्तः शमलगृहीतो यजेत ।
विश्वास-प्रस्तुतिः
अष्टाक्षरा वै गायत्री ।
Haug
The Gāyatrī consists of eight syllables (three times eight).
मूलम्
अष्टाक्षरा वै गायत्री ।
विश्वास-प्रस्तुतिः
गायत्र्या वै देवाः पाप्मानं शमलमपाघ्नत ।
Haug
The gods being of the nature of the Gāyatri, removed the evil consequences of sin and crime.
मूलम्
गायत्र्या वै देवाः पाप्मानं शमलमपाघ्नत ।
विश्वास-प्रस्तुतिः
गायत्र्यैवास्य तत्पाप्मानं शमलमपहन्त्यप पाप्मानं हते य एवं वेद ।
Haug
He who has such a knowledge, removes the evil consequences of sin and crime from himself by means of the Gāyatrī.
मूलम्
गायत्र्यैवास्य तत्पाप्मानं शमलमपहन्त्यप पाप्मानं हते य एवं वेद ।
विश्वास-प्रस्तुतिः
सहस्रमनूच्यं स्वर्गकामस्य ।
Haug
He who wishes for heaven, should repeat a thousand verses.
मूलम्
सहस्रमनूच्यं स्वर्गकामस्य ।
विश्वास-प्रस्तुतिः
सहस्राश्वीने वा इतः स्वर्गो लोकः ।
Haug
For the heavenly world is at a distance of about 1,000 days’ travelling on horseback from here (this earth).
मूलम्
सहस्राश्वीने वा इतः स्वर्गो लोकः ।
विश्वास-प्रस्तुतिः
स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्या ।
Haug
(To repeat a thousand verses, is done) for reaching the heavenly world everywhere.
मूलम्
स्वर्गस्य लोकस्य समष्ट्यै सम्पत्त्यै संगत्या ।
विश्वास-प्रस्तुतिः
अपरिमितमनूच्यम् ।
Haug
(He who then wishes) for acquisition of things to be enjoyed, and of communion (with the gods), should recite an unlimited number (of verses).
मूलम्
अपरिमितमनूच्यम् ।
विश्वास-प्रस्तुतिः
अपरिमितो वै प्रजापतिः ।
Haug
For Prajāpati is boundless.
मूलम्
अपरिमितो वै प्रजापतिः ।
विश्वास-प्रस्तुतिः
प्रजापतेर्वा एतदुक्थं यत्प्रातरनुवाकस्तस्मिन्सर्वे कामा अवरुध्यन्ते ।
Haug
To Prajāpati belongs the recitation which makes up the Prātar-anuvāka. Therein are all desires contained.
मूलम्
प्रजापतेर्वा एतदुक्थं यत्प्रातरनुवाकस्तस्मिन्सर्वे कामा अवरुध्यन्ते ।
विश्वास-प्रस्तुतिः
स यदपरिमितमन्वाह सर्वेषां कामानामवरुद्ध्यै ।
Haug
When he repeats an unlimited number (it is done) to obtain fulfilment of all wishes.
मूलम्
स यदपरिमितमन्वाह सर्वेषां कामानामवरुद्ध्यै ।
विश्वास-प्रस्तुतिः
सर्वान्कामानवरुन्द्धे य एवं वेद ।
Haug
He who has such a knowledge, obtains fulfilment of all wishes.
मूलम्
सर्वान्कामानवरुन्द्धे य एवं वेद ।
विश्वास-प्रस्तुतिः
तस्मादपरिमितमेवानूच्यम् ।
Haug
Thence one should repeat an unlimited number[18] (of verses).
Haug - Notes
[18]As many as a Hotar can repeat from after midnight to sunrise.
मूलम्
तस्मादपरिमितमेवानूच्यम् ।
विश्वास-प्रस्तुतिः
सप्ताग्नेयानि छन्दांस्यन्वाह सप्त वै देवलोकाः ।
Haug
He repeats verses of seven (kinds of) metres for Agni; for there are seven worlds of the gods.
मूलम्
सप्ताग्नेयानि छन्दांस्यन्वाह सप्त वै देवलोकाः ।
विश्वास-प्रस्तुतिः
सर्वेषु देवलोकेषु राध्नोति य एवं वेद ।
Haug
He who has such a knowledge becomes successful in all of them.
मूलम्
सर्वेषु देवलोकेषु राध्नोति य एवं वेद ।
विश्वास-प्रस्तुतिः
सप्तोषस्यानि छन्दांस्यन्वाह सप्त वै ग्राम्याः पशवः ।
Haug
He repeats verses of seven (kinds of) metres for Uṣas; for there are seven (kinds of) cattle[19] in villages.
Haug - Notes
[19]Such as goats, sheep, cows, horses, asses, camels, &c. As the seventh kind, Apastamba counts man.
मूलम्
सप्तोषस्यानि छन्दांस्यन्वाह सप्त वै ग्राम्याः पशवः ।
विश्वास-प्रस्तुतिः
अव ग्राम्यान्पशून्रुन्द्धे य एवं वेद ।
Haug
He who has such a knowledge, obtains these seven (kinds of) cattle in the villages.
मूलम्
अव ग्राम्यान्पशून्रुन्द्धे य एवं वेद ।
विश्वास-प्रस्तुतिः
सप्ताश्विनानि छन्दांस्यन्वाह ।
Haug
He repeats seven (kinds of verses) for the Aśvins;
मूलम्
सप्ताश्विनानि छन्दांस्यन्वाह ।
विश्वास-प्रस्तुतिः
सप्तधा वै वागवदत् ।
Haug
for Speech spoke in seven (different tones).
मूलम्
सप्तधा वै वागवदत् ।
विश्वास-प्रस्तुतिः
तावद्वै वागवदत्सर्वस्यै वाचः सर्वस्य ब्रह्मणः परिगृहीत्यै ।
Haug
In as many tones (i.e., seven) then spoke Speech (in all made men). (These seven tones are made) for comprising the whole speech (the worldly talk and singing), the whole Brahma.
मूलम्
तावद्वै वागवदत्सर्वस्यै वाचः सर्वस्य ब्रह्मणः परिगृहीत्यै ।
विश्वास-प्रस्तुतिः
तिस्रो देवता अन्वाह त्रयो वा इमे त्रिवृतो लोका ।
Haug
He repeats for three deities; for three worlds are three-fold.
मूलम्
तिस्रो देवता अन्वाह त्रयो वा इमे त्रिवृतो लोका ।
विश्वास-प्रस्तुतिः
एषामेव लोकानामभिजित्यै ।
Haug
(This repetition therefore serves) for conquering (all) these worlds of the gods.
मूलम्
एषामेव लोकानामभिजित्यै ।