१६

प्रजापतौ वै स्वयम्होतरि प्रातरनुवाकमनुवक्ष्यति सर्वा देवता मामभि प्रति-पत्स्यति मामभीति स प्रजापतिरैक्षत यद्येकां देवतामादिष्टामभि प्रतिप-त्स्यामीतरा मे केन देवता उपाप्ता भविष्यन्तीति स एतामृचमपश्यदापो रेवतीरित्यापो वै सर्वा देवता रेवत्यः सर्वा देवताः स एतयर्चा प्रातर-नुवाकम्प्रत्यपद्यत ताः सर्वा देवताः प्रामोदन्त मामभि प्रत्यपादि मामभीति सर्वा हास्मिन्देवताः प्रातरनुवाकमनुब्रुवति प्रमोदन्ते सर्वाभिर्हास्य देवताभिः प्रा-तरनुवाकः प्रतिपन्नो भवति य एवं वेद ते देवा अबिभयुरादातारो वै न इमम्प्रातर्यज्ञमसुरा यथौजीयांसो बलीयांस एवमिति तानब्रवीदीन्द्रो मा बिभीत त्रिषमृद्धमेभ्योऽहम्प्रातर्वज्रम्प्रहर्तास्मीत्येतां वाव तदृचमब्रवीद्वज्रस्तेन यदपो-नप्त्रीया वज्रस्तेन यत्त्रिष्टुब्वज्रस्तेन यद्वाक् तमेभ्यः प्राहरत्तेनैनानहंश्ततो वै देवा अभवन्परा असुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद तदाहुः स वई होता स्याद्य एतस्यामृचि सर्वाणि छन्दांसि प्रजनयेदित्येषा

वाव त्रिरनुक्त सर्वनि छन्दांसि भवत्येषा छन्दसाम्प्रजातिः १६