१५

देवेभ्यः प्रातर्यावभ्यो होतरनुब्रूहीत्याहाध्वर्युरेते वाव देवाः प्रातर्यावाणो यदग्निरुषा अश्विनौ त एते सप्तभिःसप्तभिश्छन्दोभिरागछन्त्यास्य देवाः प्रातर्यावाणो हवं गछन्ति य एवं वेद प्रजापतौ वै स्वयं होतरि प्रातरनुवाकमनुवक्ष्यत्युभये देवासुरा यज्ञमुपावसन्नस्मभ्यमनुवक्ष्यत्यस्म-भ्यमिति स वै देवेभ्य एवान्वब्रवीत्ततो वै देवा अभवन्परासुरा भवत्यात्मना परास्य द्विषन्पाप्मा भ्रातृव्यो भवति य एवं वेद प्रातर्वै स तं देवे-भ्योऽन्वब्रवीद्यत्प्रातरन्वब्रवीत्तत्प्रातरनुवाकस्य प्रातरनुवाकत्वम्महति रात्र्या अनूच्यः सर्वस्यै वाचः सर्वस्य ब्रह्मणः परिगृहीत्यै यो वै भवति यः श्रेष्ठतामश्नुते तस्य वाचम्प्रोदितामनुप्रवदन्ति तस्मान्महति रात्र्या अनूच्यः पुरा वाचः प्रवदितोरनूच्यो यद्वाचि प्रोदितायामनुब्रूयादन्यस्यैवैनमुदितानुवादिनं कुर्यात्तस्मान्महति रात्र्या अनूच्यः पुरा शकुनिवादादनुब्रुयन्निरृतेर्वा एतन्मुखं यद्वयंसि यच्छकुनयस्तद्यत्पुरा शकुनिवादादनुब्रूयान्मायज्ञियां वाचम्प्रोदिता-मनुप्रवदिष्मेति तस्मान्महति रात्र्या अनूच्योऽथो खलु यदैवाध्वर्युरुपा-कुर्यादथानुब्रूयाद्यदा वा अध्वर्युरुपाकरोति वाचैवोपाकरोति वाचा होतान्वाह

वाग्घि ब्रह्म तत्र स काम उपाप्तो यो वाचि च ब्रह्मणि च १५