१४

सा वा एषामृताहुतिरेव यद्वपाहुतिरमृताहुतिरग्न्याहुतिरमृताहुतिराज्याहुति-रमृताहुतिः सोमाहुतिरेता वा अशरीरा अहुतयो या वै काश्चाशरीर आहुतयो-ऽमृतत्वमेव ताभिर्यजमानो जयति सा वा एषा रेत एव यद्वपा प्रेव वै रेतो लीयते प्रेव वपा लीयते शुक्लं वै रेतः शुक्ल वपाशरीरं वै रेतोऽशरीरा वपा यद्वै लोहितं यन्मांसं तच्छरीरं तस्माद्ब्रूयाड्यावदलोहितं तावत्परिवासयेति सा पञ्चावत्ता भवति यद्यपि चतुरवत्ती यजमानः स्यादथ पञ्चावत्तैव वपा-ज्यस्योपस्तृणाति हिरण्यशल्को वपा हिरण्यशल्क आज्यस्योपरिष्टादभि-घारयति तदाहुर्यद्धिरण्यं न विद्येत कथं स्यदिति द्विराज्यस्योपस्तीर्य वपा-मवदाय द्विरुपरिष्टदभिघारयत्यमृतं वा आज्यममृतं हिरण्यं तत्र स काम उपाप्तो य आज्ये तत्र स काम उपाप्तो यो हिरण्ये तत्पञ्च सम्पद्यन्ते पाङ्क्तोऽयम्पुरुषः पञ्चधा विहितो लोमानि त्वङ्मांसमस्थि मज्जा स यावानेव पुरुषस्तावन्तं यजमानं संस्कृत्याग्नौ देवयोन्यां जुहोत्यग्निर्वै देवयोनिः सोऽग्नेर्देवयोन्या

आहुतिभ्यः सम्भूय हिरण्यशरीर ऊर्ध्वः स्वर्गं लोकमेति १४