१३

तदाहुः का स्वाहाकृतीनाम्पुरोनुवाक्याः कः प्रैषः का याज्येति या एवैता अन्वाहैताः पुरोनुवाक्या यः प्रैषः स प्रैषो या याज्या सा यज्या तदाहुः का देवताः स्वाहाकृतय इति विश्वे देवा इति ब्रूयात्तस्मात्स्वाहाकृतं हविरदन्तु देवा इति यजन्तीति देवा वै यज्ञेन श्रमेण तपसाहुतिभिः स्वर्गं लोकमजयंस्तेषां वपायामेव हुतायां स्वर्गो लोकः प्राख्यायत ते वपामेव हुत्वानादृत्येतराणि कर्माण्यूर्ध्वाः स्वर्गं लोकमायंस्ततो वै मनुष्याश्च ऋषयश्च देवानां यज्ञवा-स्त्वभ्यायन्यज्ञस्य किंचिदेषिष्यामः प्रज्ञात्या इति तेऽभितः परिचरन्त ऐत्य पशुमेव निरान्त्रं शयानं ते विदुरियान्वाव किल पशुर्यावती वपेति स एतावानेव पशुर्यावती वपाथ यदेनं तृतीयसवने श्रपयित्वा जुह्वति भूयसीभिर्न आहुतिभिरिष्टमसत्केवलेन नः पशुनेष्टमसदिति भूयस्ल्भिर्हास्याहुतिभिरिष्टम्भवति केवलेन हास्य पशुनेष्टम्भवति य एवं वेद १३