१२

तस्य वपामुत्खिद्याहरन्ति तामध्वर्युः स्रुवेणाभिघारयन्नाह स्तोकेभ्योऽनुब्रूहीति तद्यत्स्तोकाः श्चोतन्ति सर्वदेवत्या वै स्तोका नेन्म इमेऽनभिप्रीता देवान्गछानिति जुषस्व सप्रथस्तममित्यन्वाह वचो देवप्सरस्तमम् हव्याजुह्वान आसनीत्य-ग्नेरेवैनांस्तदास्ये जुहोतीमं नो यज्ञममृतेषु धेहीति सूक्तमन्वाहेमा हव्या जातवेदो जुषस्वेति हव्यजुष्टिमाशास्ते स्तोकानामग्ने मेदसो घृतस्येति मेदसश्च हि घृतस्य च भवन्ति होतः प्राशान प्रथमो निषद्येत्यग्निर्वै देवानां होताग्ने प्राशान प्रथमो निषद्येत्येव तदाह घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदस इति मेदसश्च ह्येव हि घृतस्य च भवन्ति स्वधर्मन्देववीतये श्रेष्ठं नो धेहि वार्यमित्याशि-षमाशास्ते तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्येति घृतश्चुतो हि भवन्त्यृषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भवेति यज्ञसमृद्धिमाशास्ते तुभ्यं श्चोतन्त्यध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्येति मेदसश्च ह्येव हि घृतस्य च भवन्ति कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिरेति हव्यजुष्टिमेवाशास्त ओजिष्ठं ते मध्यतो मेद उद्भृतम्प्र ते वयं ददामहे श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहीत्यभ्येवैनांस्तद्वषट्करोति यथा सोमस्याग्ने वीहीति तद्यत्स्तोकाः श्चोतन्ति सर्वदेवत्या वै स्तोकास्तस्मादियं स्तोकशो वृष्टिर्विभक्तोपाचरति १२