विश्वास--प्रस्तुतिः
देवा वै यज्ञमतन्वत तांस्तन्वानानसुरा अभ्यायन्यज्ञवेशसमेषां करिष्याम इति ।
Haug
(The Remaining Rites of the Animal Sacrifice. The Prâtar-anuvâka).[1]
(Why fire is carried round the sacrificial animal.)
The Devas spread the sacrifice. When doing so, the Asuras attacked them, intending to put an obstacle in their way (to prevent the successful performance of the sacrifice).
Haug - Notes
[1]Agnidhra is performing this rite. See 2, 5.
मूलम्
देवा वै यज्ञमतन्वत तांस्तन्वानानसुरा अभ्यायन्यज्ञवेशसमेषां करिष्याम इति ।
विश्वास-प्रस्तुतिः
तानाप्रीते पशौ पुर इव पर्यग्नेर्यूपम्प्रति पुरस्तादुपायंश्ते ।
Haug
The attack was made against the sacrificial post from the eastern direction, after the animal had been consecrated by the Aprî verses (see 2, 4), and before the fire was carried round the animal.
मूलम्
तानाप्रीते पशौ पुर इव पर्यग्नेर्यूपम्प्रति पुरस्तादुपायंश्ते ।
विश्वास-प्रस्तुतिः
देवाः प्रतिबुध्याग्निमयीः पुरस्त्रिपुरम्पर्यास्यन्त यज्ञस्य चात्मनश्च गुप्त्यै ।
Haug
The Devas awoke, and surrounded, for their own protection, as well as for that of the sacrifice (the place) with a three-fold wall resembling fire.
मूलम्
देवाः प्रतिबुध्याग्निमयीः पुरस्त्रिपुरम्पर्यास्यन्त यज्ञस्य चात्मनश्च गुप्त्यै ।
विश्वास-प्रस्तुतिः
ता एषामिमा अग्निमय्यः पुरो दीप्यमाना भ्राजमाना अतिष्ठंस्ता ।
Haug
The Asuras seeing those walls shining and blazing,
मूलम्
ता एषामिमा अग्निमय्यः पुरो दीप्यमाना भ्राजमाना अतिष्ठंस्ता ।
विश्वास-प्रस्तुतिः
असुरा अनपधृष्यैवापाद्र वंस्ते ।
Haug
did not venture an attack, but ran away.
मूलम्
असुरा अनपधृष्यैवापाद्र वंस्ते ।
विश्वास-प्रस्तुतिः
अगिनिनैव पुरस्तादसुररक्षांस्यपाघ्नताग्निना पश्चात्तथैवैतद्यजमाना ।
Haug
Thus the Devas defeated the Asuras on the eastern side as well as on the western.
मूलम्
अगिनिनैव पुरस्तादसुररक्षांस्यपाघ्नताग्निना पश्चात्तथैवैतद्यजमाना ।
विश्वास-प्रस्तुतिः
यत्पर्यग्नि कुर्वन्त्यग्निमयीरेव तत्पुरस्त्रिपुरम्पर्यस्यन्ते यज्ञस्य चात्मनश्च गुप्त्यै ।
Haug
For this reason the sacrificers perform the rite of carrying fire round (the animal, when consecrated),
मूलम्
यत्पर्यग्नि कुर्वन्त्यग्निमयीरेव तत्पुरस्त्रिपुरम्पर्यस्यन्ते यज्ञस्य चात्मनश्च गुप्त्यै ।
विश्वास-प्रस्तुतिः
तस्मात्पर्यग्नि कुर्वन्ति तस्मात्पर्यग्नये ऽन्वाह ।
Haug
and have a mantra recited; for they thus surround (the animal) with a three-fold wall, shining like fire, for their own protection and that of the sacrifice.
मूलम्
तस्मात्पर्यग्नि कुर्वन्ति तस्मात्पर्यग्नये ऽन्वाह ।
विश्वास-प्रस्तुतिः
तं वा एतम्पशुमाप्रीतं सन्तम्पर्यग्निकृतमुदञ्चं नयन्ति ।
Haug
After the animal is consecrated, and fire carried around it, they take it northwards.
मूलम्
तं वा एतम्पशुमाप्रीतं सन्तम्पर्यग्निकृतमुदञ्चं नयन्ति ।
विश्वास-प्रस्तुतिः
तस्योल्मुकम्पुरस्ताद्धरन्ति ।
Haug
They carry before it a firebrand,
मूलम्
तस्योल्मुकम्पुरस्ताद्धरन्ति ।
विश्वास-प्रस्तुतिः
यजमानो वा एष निदानेन यत्पशुः ।
Haug
meaning thereby that the animal is ultimately the sacrificer himself;
मूलम्
यजमानो वा एष निदानेन यत्पशुः ।
विश्वास-प्रस्तुतिः
अनेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्गं लोकमेष्यतीति ।
Haug
they believe that he will go to heaven, having that light (the firebrand) carried before him.
मूलम्
अनेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्गं लोकमेष्यतीति ।
विश्वास-प्रस्तुतिः
तेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्गं लोकमेति ।
Haug
And in this way he really goes to heaven.
मूलम्
तेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्गं लोकमेति ।
विश्वास-प्रस्तुतिः
तं यत्र निहनिष्यन्तो भवन्ति तदध्वर्युर्बर्हिरधस्तादुपास्यति ।
Haug
The Adhvaryu throws sacred grass (barhis) on the spot where they are to kill the animal.
मूलम्
तं यत्र निहनिष्यन्तो भवन्ति तदध्वर्युर्बर्हिरधस्तादुपास्यति ।
विश्वास-प्रस्तुतिः
यदेवैनमद आप्रीतं सन्तम्पर्यग्निकृतम्बहिर्वेदि नयन्ति बर्हिषदमेवैनं तत्कुर्वन्ति ।
Haug
When they carry it outside the Vedi, after having consecrated and carried fire round it, they make it sit on the sacred grass (barhis).
मूलम्
यदेवैनमद आप्रीतं सन्तम्पर्यग्निकृतम्बहिर्वेदि नयन्ति बर्हिषदमेवैनं तत्कुर्वन्ति ।
विश्वास-प्रस्तुतिः
तस्योवध्यगोहं खनन्ति ।
Haug
They dig a ditch for its excrements.
मूलम्
तस्योवध्यगोहं खनन्ति ।
विश्वास-प्रस्तुतिः
औषधं वा ऊवध्यमियं वा ओषधीनाम्प्रतिष्ठा तदेनत्स्वायामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयन्ति ।
Haug
The excrements consist of herbs; the earth is the proper place for herbs; thus he puts them at the end in their proper place (by throwing them into a ditch, dug in the earth).
मूलम्
औषधं वा ऊवध्यमियं वा ओषधीनाम्प्रतिष्ठा तदेनत्स्वायामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयन्ति ।
विश्वास-प्रस्तुतिः
तदाहुर्यदेष हविरेव यत्पशुरथास्य बह्वपैति लोमानि त्वगसृक्कुष्ठिकाः शफा विषाणे स्कन्दति पिशितं केनास्य तदापूर्यत इति ।
Haug
They say : when the animal is the offering, then many parts (of this offering) go off (are not used), such as hairs, skin, blood, half-digested food, hoofs, the two horns, some pieces of flesh which fall to the ground. (Such being the case) in what way then is the deficiency made up ?
मूलम्
तदाहुर्यदेष हविरेव यत्पशुरथास्य बह्वपैति लोमानि त्वगसृक्कुष्ठिकाः शफा विषाणे स्कन्दति पिशितं केनास्य तदापूर्यत इति ।
विश्वास-प्रस्तुतिः
यदेवैतत्पशौ पुरोळाशमनुनिर्वपन्ति तेनैवास्य तदापूर्यते ।
Haug
The answer is : if they sacrifice Puroḍāśa, divided into its proper parts along with the animal, then the animal sacrifice is made complete.
मूलम्
यदेवैतत्पशौ पुरोळाशमनुनिर्वपन्ति तेनैवास्य तदापूर्यते ।
विश्वास-प्रस्तुतिः
पशुभ्यो वै मेधा उदक्रामंस्तौ व्रीहिश्चैव यवश्च भूतावजायेताम् ।
Haug
When the sacrificial essence had gone from the animals, both rice and barley sprang out of it.
मूलम्
पशुभ्यो वै मेधा उदक्रामंस्तौ व्रीहिश्चैव यवश्च भूतावजायेताम् ।
विश्वास-प्रस्तुतिः
तद्यत्पशौ पुरोळाशमनुनिर्वपन्ति समेधेन नः पशुनेष्टमसत्केवलेन नः पशुनेष्टमसदिति ।
Haug
When they offer Puroḍāśa, divided into its proper parts along with the animal, then they should think, “our animal was sacrificed with the sacrificial essence in it; our animal has been sacrificed in its entirety.”
मूलम्
तद्यत्पशौ पुरोळाशमनुनिर्वपन्ति समेधेन नः पशुनेष्टमसत्केवलेन नः पशुनेष्टमसदिति ।
विश्वास-प्रस्तुतिः
समेधेन हास्य पशुनेष्टम्भवति केवलेन हास्य पशुनेष्टम्भवति य एवं वेद ।
Haug
The animal of him who has this knowledge is sacrificed in its entirety.
मूलम्
समेधेन हास्य पशुनेष्टम्भवति केवलेन हास्य पशुनेष्टम्भवति य एवं वेद ।