११

देवा वै यज्ञमतन्वत तांस्तन्वानानसुरा अभ्यायन्यज्ञवेशसमेषां करिष्याम इति तानाप्रीते पशौ पुर इव पर्यग्नेर्यूपम्प्रति पुरस्तादुपायंश्ते देवाः प्रतिबुध्याग्निमयीः पुरस्त्रिपुरम्पर्यास्यन्त यज्ञस्य चात्मनश्च गुप्त्यै ता एषामिमा अग्निमय्यः पुरो दीप्यमाना भ्राजमाना अतिष्ठंस्ता असुरा अनपधृष्यैवापाद्र वंस्तेऽगिनिनैव पुरस्तादसुररक्षांस्यपाघ्नताग्निना पश्चात्तथैवैतद्यजमाना यत्पर्यग्नि कुर्वन्त्यग्निम-यीरेव तत्पुरस्त्रिपुरम्पर्यस्यन्ते यज्ञस्य चात्मनश्च गुप्त्यै तस्मात्पर्यग्नि कुर्वन्ति तस्मात्पर्यग्नयेऽन्वाह तं वा एतम्पशुमाप्रीतं सन्तम्पर्यग्निकृतमुदञ्चं नयन्ति तस्योल्मुकम्पुरस्ताद्धरन्ति यजमानो वा एष निदानेन यत्पशुरनेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्गं लोकमेष्यतीति तेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्गं लोकमेति तं यत्र निहनिष्यन्तो भवन्ति तदध्वर्युर्बर्हिरधस्तादुपास्यति यदेवैनमद आप्रीतं सन्तम्पर्यग्निकृतम्बहिर्वेदि नयन्ति बर्हिषदमेवैनं तत्कुर्वन्ति तस्योवध्यगोहं खनन्त्यौषधं वा ऊवध्यमियं वा ओषधीनाम्प्रतिष्ठा तदेनत्स्वा-यामेव प्रतिष्ठायामन्ततः प्रतिष्ठापयन्ति तदाहुर्यदेष हविरेव यत्पशुरथास्य ब-ह्वपैति लोमानि त्वगसृक्कुष्ठिकाः शफा विषाणे स्कन्दति पिशितं केनास्य तदापूर्यत इति यदेवैतत्पशौ पुरोळाशमनुनिर्वपन्ति तेनैवास्य तदापूर्यते पशुभ्यो वै मेधा उदक्रामंस्तौ व्रीहिश्चैव यवश्च भूतावजायेतां तद्यत्पशौ पुरोळाश-मनुनिर्वपन्ति समेधेन नः पशुनेष्टमसत्केवलेन नः पशुनेष्टमसदिति समेधेन

हास्य पशुनेष्टम्भवति केवलेन हास्य पशुनेष्टम्भवति य एवं वेद ११