मनोतायै हविषोऽवदीयमानस्यानुब्रूहीत्याहाध्वर्युस्त्वं ह्यग्ने प्रथमो मनोतेति सूक्तमन्वाह तदाहुर्यदन्यदेवत्य उत पशुर्भवत्यथ कस्मादाग्नेयीरेव मनोतायै हविषोऽवदीयमानस्यान्वाहेति तिस्रो वै देवानाम्मनोतास्तासु ही तेषाम्म-नांस्योतानि वाग्वै देवानाम्मनोता तस्यां हि तेषाम्मनांस्योतानि गौर्वै देवानाम्मनोता तस्यां हि तेषाम्मनांस्योतान्यग्निर्वै देवानाम्मनोता तस्मिन्हि तेषाम्मनांस्योतान्यग्निः सर्वा मनोता अग्नौ मनोताः संगछन्ते तस्मादाग्नेयीरेव मनोतायै हविषोऽवदीयमानस्यान्वाहाग्नीषोमा हविषः प्रस्थितस्येति हविषो यजति हविष इति रूपसमृद्ध प्रस्थितस्येति रूपसमृद्धा सर्वाभिर्हास्य समृद्धिभिः समृद्धं हव्यं देवानप्येति य एवं वेद वनस्पतिं यजति प्राणो वै वनस्पतिर्जीवं हास्य हव्यं देवानप्येति यत्रैवं विद्वान्वनस्पतिं यजति स्विष्टकृतं यजति प्रतिष्ठा वै स्विष्टकृत्प्रतिष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयतीळामुपह्वयते
पशवो वा इळा पशूनेव तदुपह्वयते पशून्यजमाने दधाति दधाति १०
१