स वा एष पशुरेवालभ्यते यत्पुरोळाशस्तस्य यानि किंशारूणि तानि रोमाणि ये तुषाः सा त्वग् ये फलीकरणास्तदसृग्यत्पिष्टं किक्नसास्तन्मांसं यत्किं चित्कंसारं तदस्थि सर्वेषां वा एष पशूनाम्मेधेन यजते यः पुरोळाशेन यजते तस्मादाहुः पुरोळाशसत्रं लोक्यमिति युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम्युवं सिन्धूँ रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतानिति वपायै यजति सर्वाभिर्वा एष देवताभिरालब्धो भवति यो दीक्षितो भवति तस्मादाहुर्न दीक्षितस्याश्नीयादिति स यदग्नीषोमावमुञ्चतं गृभीतानिति वपायै यजति सर्वाभ्य एव तद्देवताभ्यो यजमानम्प्रमुञ्चति तस्मादाहुरशितव्यं वपायां हुतायां यजमानो हि स तर्हि भवतीत्यान्यं दिवो मातरिश्वा जभारेति पुरोळाशस्य यजत्यमथ्नादन्यम्परि श्येनो अद्रे रितीत इव च ह्येष इत इव च मेधः समाहृतो भवति स्वदस्व हव्या समिषो दिदीहीति पुरोळशस्विष्टकृतो यजति हविरेवास्मा एतत्स्वदयतीषमूर्जमात्मन्धत्त इळामुपह्वयते पशवो वा इळा
पशूनेव तदुपह्वयते पशून्यजमाने दधाति ९