०८

पुरुषं वै देवाः पशुमालभन्त तस्मादालब्धान्मेध उदक्रामत्सोऽश्वम्प्राविशत्त-स्मादश्वो मेध्योऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स किम्पुरुषोऽभवत्तेऽश्वमा-लभन्त सोऽश्वादालब्धादुदक्रामत्स गाम्प्राविशत्तस्माद्गौर्मेध्योऽभवडथैनमु-त्क्रान्तमेधमत्यार्जन्त स गौरमृगोऽभवत्ते गामालभन्त स गोरालब्धादुदक्राम-त्सोऽविम्प्राविशत्तस्मादविर्मेध्योऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स गवयो-ऽभवत्तेऽविमालभन्त सोऽवेरालब्धादुदक्रामत्सोऽजम्प्राविशत्तस्मादजो मेध्यो-ऽभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स उष्ट्रोऽभवत्सोऽजे ज्योक्तमामिवारमत तस्मादेष एतेषाम्पशूनाम्प्रयुक्ततमो यदजस्तेऽजमालभौत सोऽजादालब्धा-दुदक्रामत् स इमाम्प्राविशत्तस्मादियम्मेध्याभवदथैनमुत्क्रान्तमेधमत्यार्जन्त स शरभोऽभवत्त एत उत्क्रान्तमेधा अमेध्याः पशवस्तस्मादेतेषां नाश्नीयात्तम-स्यामन्वगछन्सोऽनुगतो व्रीहिरभवत्तद्यत्पशौ पुरोळाशमनुनिर्वपन्ति समेधेन नः पशुनेष्टमसत्केवलेन नः पशुनेष्टमसदिति समेधेन हास्य पशुनेष्टम्भवति

केवलेन हास्य पशुनेष्टम्भवति य एवं वेद ८