अस्ना रक्षः संसृजतादित्याह तुषैर्वै फलीकरणैर्देवा हविर्यज्ञेभ्यो रक्षांसि निरभजन्नस्ना महायज्ञात्स यदस्ना रक्षः संसृजतादित्याह रक्षांस्येव तत्स्वेन भागधेयेन यज्ञान्निरवदयते तदाहुर्न यज्ञे रक्षसां कीर्तयेत्कानि रक्षांस्यृतेरक्षा वै यज्ञ इति तदु वा आहुः कीर्तयेदेव यो वै भागिनम्भागान्नुदते चयते वैनं स यदि वैनं न चयतेऽथ पुत्रमथ पौत्रं चयते त्वेवैनमिति स यदि कीर्तयेदुपांशु कीर्तयेत्तिर इव वा एतद्वाचो यदुपांशु तिर इवैतद्यद्र क्षांस्यथ यदुच्चैः कीर्तयेदीश्वरो हास्य वाचो रक्षोभाषो जनितोर्योऽयं राक्षसीं वाचं वदति स यां वै दृप्तो वदति यामुन्मत्तः सा वै राक्षसी वाङ् नात्मना दृप्यति नास्य प्रजायां दृप्त आजायते य एवं वेद वनिष्ठुमस्य मा राविष्टोरूकम्मन्यमाना नेद्वस्तोके तन ये रविता रवच्छमितार इति ये चैव देवानां शमितारो ये च मनुष्याणां तेभ्य एवैनं तत्परिददात्यध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वं अध्रिगा उ इति त्रिर्ब्रूयादपापेति चाध्रिगुर्वै देवानां शमितापापो निग्रभीता शमितृभ्यश्चैवैनं तन्निग्रभीतृभ्यश्च सम्प्रयछति शमितारो यदत्र सुकृतं कृणवथास्मासु तद्यद्दुष्कृ-तमन्यत्र तदित्याहाग्निर्वै देवानां होतासीत्स एनं वाचा व्यशाद्वाचा वा एनं होता विशास्ति तद्यदर्वाग्यत्परः कृन्तन्ति यदुल्बणं यद्विथुरं क्रियते शमितृभ्य-श्चैवैनत्तन्निग्रभीतृभ्यश्च समनुदिशति स्वस्त्येव होतोन्मुच्यते सर्वायुः सर्वायुत्वाय सर्वमायुरेति य एवं वेद ७