०६

दैव्याः शमितार आरभध्वमुत मनुष्या इत्याह ये चैव देवानां शमितारो ये च मनुष्याणां तानेव तत्संशास्त्युपनयत मेध्या दुर आशासाना मेधपतिभ्या-म्मेधमिति पशुर्वै मेधो यजमानो मेधपतिर्यजमानमेव तत्स्वेन मेधेन सम-र्धयत्यथो खल्वाहुर्यस्यै वाव कस्यै च देवतायै पशुरालभ्यते सैव मेधपतिरिति स यद्येकदेवत्यः पशुः स्यान्मेधपतय इति ब्रूयाद्यदि द्विदेवत्यो मेधपतिभ्या-मिति यदि बहुदेवत्यो मेधपतिभ्य इत्येतदेव स्थितम्प्रास्मा अग्निम्भरतेति पशुर्वै नीयमानः स मृत्युम्प्रापश्यत्स देवान्नान्वकामयतैतुं तं देवा अब्रुवन्नेहि स्वर्गं वै त्वा लोकं गमयिष्याम इति स तथेत्यब्रवीत्तस्य वै मे युष्माकमेकः पुरस्ता-दैत्विति तथेति तस्याग्निः पुरस्तदैत्सोऽग्निमनुप्राच्यवत तस्मदाहुराग्नेयो वाव सर्वः पशुरग्निं हि सोऽनुप्राच्यवतेति तस्माद्वस्याग्निम्पुरस्ताद्धरन्ति स्तृणीत बर्हिरित्योषध्यात्मा व पशुः पशुमेव तत्सर्वात्मानं करोत्यन्वेनम्माता मन्यता-मनु पितानु भ्राता स गर्भ्योऽनु सखा सयूथ्य इति जनित्रैरेवैनं तत्सम-नुमतमालभन्त उदीचीनाँ अस्य पदो नि धत्तात्सूर्यं चक्षुर्गमयताद्वातम्प्रा-णमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रम्पृथिवीं शरीरमित्येष्वेवैनं तल्लोके-ष्वादधात्येकधास्य त्वचमाछ्यतात्पुरा नाभ्या अपिशसो वपामुत्खिदता-दन्तरेवोष्माणं वारयध्वादिति पशुष्वेव तत्प्राणान्दधाति श्येनमस्य वक्षः कृणुतात्प्रशसा बाहू शला दोषणी कश्यपेवांसाछिद्रे श्रोणी कवषोरू स्रेक-पर्णाष्ठीवन्ता षड्विंशतिरस्य वङ्क्रयस्त अनुष्ठ्योच्च्यावयताद्गात्रं-गत्रमस्यानूनं कृणुतादित्यङ्गान्येवास्य तद्गात्राणि प्रीणात्यूवध्यगोहम्पार्थिवं खनतादित्या-हौषधं वा ऊवध्यमियं वा ओषधीनाम्प्रतिष्ठा तदेनत्स्वायामेव प्रतिष्ठायामन्ततः

प्रतिष्ठापयति ६