पर्यग्नये क्रियमाणायानुब्रूहीत्याहाध्वर्युरग्निर्होता नो अध्वर इति तृइचमाग्नेयं गायत्रमन्वाह पर्यग्नि क्रियमाणे स्वयैवैनं तद्देवतया स्वेन छन्दसा समर्धयति वाजी सन्परि णीयत इति वाजिनमिव ह्येनं सन्तम्परिणयन्ति परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिवेत्येष हि रथीरिवाध्वरम्परियाति परि वाजपतिः कविरित्येष हि वाजनम्पतिरत उपप्रेष्य होतर्हव्या देवेभ्य इत्याहाध्वर्युरजैदग्निरसनद्वा-जमिति मैत्रावरुण उपप्रैषम्प्रतिपद्यते तदाहुर्यदध्वर्युर्होतारमुपप्रेष्यत्यथ कस्मा-न्मैत्रावरुण उपप्रैषम्प्रतिपद्यत इति मनो वै यज्ञस्य मैत्रावरुणो वाग्यज्ञस्य होता मनसा वा इषित वाग्वदति यां ह्यन्यमना वाचं वदत्यसुर्या वै सा वागदेवजुष्टा तद्यन्मैत्रावरुण उपप्रैषम्प्रतिपद्यते मनसैव तद्वाचमीरयति तन्मनसेरितया
वाचा देवेभ्यो हव्यं सम्पादयति ५