०४

आप्रीभिराप्रीणति तेजो वै ब्रह्मवर्चसमाप्रियस्तेजसैवैनं तधि ब्रह्मवर्चसेन समर्धयति समिधो यजति प्राणा वै समिधः प्राणा हीदं सर्वं समिन्धते यदिदं किंच प्राणानेव तत्प्रीणाति प्राणान्यजमाने दधाति तनूनपातं यजति प्राणो वै तनूनपात्स हि तन्वः पाति प्राणमेव तत्प्रीणाति प्राणं यजमाने दधाति नराशंसं यजति प्रजा वै नरो वाक्शंसः प्रजां चैव तद्वाचं च प्रीणाति प्रजां च वाचं च यजमाने दधातीळो यजत्यन्नं वा इळोऽन्नमेव तत्प्रीणात्यन्नं यजमाने दधाति बर्हिर्यजति पशवो वै बर्हिः पशूनेव तत्प्रीणाति पशून्यजमाने दधाति दुरो यजति वृष्टिर्वै दुरो वृष्टिमेव तत्प्रीणति वृष्टिमन्नाद्यं यजमाने दधात्युषासानक्ता यजत्यहोरात्रे वा उषासानक्ताहोरात्रे एव तत्प्रीणात्यहोरात्रयोर्यजमानं दधाति दैव्या होतारा यजति प्राणापानौ वै दैव्या होतारा प्राणापानावेव तत्प्रीणाति प्राणापानौ यजमाने दधाति तिस्रो देवीर्यजति प्राणो वा अपानो व्यानस्तिस्रो देव्यस्ता एव तत्प्रीणाति ता यजमाने दधाति त्वष्टारं यजति वाग्वै त्वष्टा वाग्घीदं सर्वं ताष्टीव वाचनेव तत्प्रीणाति वाचं यजमाने दधाति वनस्पतिं यजति प्राणो वै वनस्पतिः प्राणमेव तत्प्रीणाति प्राणं यजमाने दधाति स्वाहाकृतीर्यजति प्रतिष्ठा वै स्वाहाकृतयः प्रतिष्ठायामेव तद्यज्ञमन्ततः प्रतिष्ठापयति ताभिर्यथऋष्याप्रीणीयाद्यद्यथऋष्याप्रीणाति यजमनमेव तद्बन्धुताया नोत्सृजति ४