तिष्ठेद्यूपाः अनुप्रहरेतित्याहुस्तिष्ठेत्पशुकामस्य देवेभ्यो वै पशवोऽन्नाद्यायाल-म्भाय नातिष्ठन्त तेऽपक्रम्य प्रतिवावदतोऽतिष्ठन्नास्मानालप्स्यध्वे नास्मानिति ततो वै देवा एतं यूपम्वज्रमपश्यंस्तमेभ्य उदश्रयंस्तस्माद्बिभ्यत उपावर्तन्त तमेवाद्याप्युपावृइत्तास्ततो वै देवेभ्यः पशवोऽन्नाद्यायालम्भायतिष्ठन्त तिष्ठ-न्तेऽस्मै पशावोऽन्नद्यायालम्भाय य एवं वेद यस्य चैवं विदुषो यूपस्ति-ष्ठत्यनुप्रहरेत्स्वर्गकानस्य तमु ह स्मैतम्पूर्वेऽन्वेव प्रहरन्ति यजमानो वै यूपो यजमानः प्रस्तरोऽग्निर्वै देवयोनिः सोऽग्नेर्देवयोन्या आहुतिभ्यः सम्भूय हिरण्य-शरीर ऊर्ध्वः स्वर्गं लोकमेष्यतीत्यथ ये तेभ्योऽवर आसंस्त एतं स्वरु-मपश्यन्यूपशकलं तं तस्मिन्कालेऽनुप्रहरेत्तत्र स काम उपाप्तो योऽनुप्रहरणे तत्र स काम उपाप्तो यः स्थाने सर्वाभ्यो वा एष देवताभ्य आत्मानमालभते यो दीक्षतेऽग्निः सर्वा देवताः सोमः सर्वा देवताः स यदग्नीषोमीयम्पशुमालभते सर्वाभ्य एव तद्देवताभ्यो यजमान आत्मानं निष्क्रीणीते तदाहुर्द्विरूपो-ऽग्नीषोमीयः कर्तव्यो द्विदेवत्यो हीति तत्तन्नादृत्यम्पीव इव कर्तव्यः पीवोरूपा वै पशवः कृशित इव खलु वै यजमानो भवति तद्यत्पीवा पशुर्भवति यजमानमेव तत्स्वेन मेधेन समर्धयति तदाहुर्नाग्नीषोमीयस्य पाशोरश्नी-यात्पुरुषस्य वा एषोऽश्नाति योऽग्नीषोमीयस्य पाशोरश्नाति यजमानो ह्येते-नात्मानं निष्क्रीणीत इति तत्तन्नादृत्यं वार्त्रघ्नं वा एतद्धविर्यदग्नीषोमीयो-ऽग्नीषोमाभ्यां वा ईन्द्रो वृत्रमहंस्तावेनमब्रूतामावाभ्यां वै वृत्रमवधीर्वरं ते वृणावाह ईति वृणाथामिति तावेतमेव वरमवृणातां श्वःसुत्यायाम्पशुं स
एनयोरेषोऽच्युतो वरवृतो ह्येनयोस्तस्मात्तस्याशितव्यं चैव लीप्सितव्यं च ३