०२

अञ्ज्मो यूपमनुब्रूहीत्याहाध्वर्युरञ्जन्ति त्वामध्वरे देवयन्त इत्यौवाहाध्वरे ह्येनं देवयन्तोऽञ्जन्ति वनस्पते मधुना दैव्येनेत्येतद्वै मधु दैव्यं यदाज्यं यदूर्ध्वस्तिष्ठा द्र विणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थ इति यदि च तिष्ठासि यदि च शयासै द्र विणमेवास्मासु धत्तादित्येव तदाहोच्छ्रयस्व वनस्पत इत्युच्छ्रीयमाणा-याभिरूपा यद्यज्ञेऽभिरूपं तत्समृद्धं वर्ष्मन्पृथिव्या अधीत्येतद्वै वर्ष्म पृथिव्यै यत्र यूपमुन्मिन्वन्ति सुमिती मीयमानो वर्चो धा यज्ञवाहस इत्याशिषमाशास्ते समिद्धस्य श्रयमाणः पुरस्तादीति समिद्धस्य ह्येष एतत्पुरस्ताच्छ्रयते ब्रह्म वन्वानो अजरं सुवीरमीत्याशिषमेवाशास्त आरे अस्मदमतिम्बाधमान इत्यशनाया वई पाप्मामतिस्तामेव तदारान्नुदते यज्ञाच्च यजमानाच्चोच् छ्रयस्व महते सौभगायेत्याशिषमेवाशास्त ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सवितेति यद्वै देवानां नेति तदेषामोमिति तिष्ठ देव इव सवितेत्येव तदाहोर्ध्वो वाजस्य सनितेति वाजसनिमेवैनं तद्धनसां सनोति यदञ्जिभिर्वाघद्भिर्विह्वयामह इति छन्दांसि वा अञ्जयो वाघतस्तैरेतद्देवान्यजमाना विह्वयन्ते मम यज्ञमागछत मम यज्ञमिति यदि ह वा अपि बहव इव यजन्तेऽथ हास्य देवा यज्ञमैव गछन्ति यत्रैवं विद्वानेतामन्वाहोर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दहेति रक्षांसि वै पाप्मात्रिणो रक्षांसि पाप्मानं दहेत्येव तदाह कृधी न ऊर्ध्वाञ्चरथाय जीवस इति यदाह कृधी न ऊर्ध्वाञ्चरणाय जीवस इत्येव तदाह यदि ह वा अपि नीत इव यजमानो भवति परि हैवैनं तत्संवत्सराय ददाति विदा देवेषु नो दुव इत्याशिषमेवाशास्ते जातो जायते सुदिनत्वे अह्नामिति जातो ह्येष एताज्जायते समर्य आ विदथे वर्धमान इति वर्धयन्त्येवैनं तत्पुनन्ति धीरा अपसो मनीषेति पुनन्त्येवैनं तत्देवया विप्र अदियर्ति वाचमिति देवेभ्य एवैनं तन्निवेदयति युवा सुवासाः परिवीत आगादित्युत्तमया परिदधाति प्राणो वै युवा सुवा-साः सोऽयं शरीरैः परिवृतः स उ श्रेयान्भवति जायमान इति श्रेयाञ्छ्रेयान्ह्येष एतद्भवति जायमानस्तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति ये वा अनूचानास्ते कवयस्त एवैनं तदुन्नयन्ति ता एताः सप्तान्वाह रूपसमृद्धा एतद्वै यज्ञस्य समृद्धं यद्रू पसंऋद्धं यत्कर्म क्रिय-माणमृगभिवदति तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ता एकादश सम्पद्यन्त एकादशाक्षरा वै त्रिष्टुप्त्रिष्टुबीन्द्र स्य वज्र इन्द्रा यतनाभिरेवाभी राध्नोति य एवं वेद त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्सौ नह्यति स्थेम्ने बलायाविस्रंसाय २