०१

विश्वास-प्रस्तुतिः

यज्ञेन वै देवा ऊर्ध्वाः स्वर्गं लोकमायन् ।

Haug

(The Animal Sacrifice)

(Erecting of the Sacrificial Post.)

The Gods went up to the celestial world by means of this sacrifice.

मूलम्

यज्ञेन वै देवा ऊर्ध्वाः स्वर्गं लोकमायन् ।

विश्वास-प्रस्तुतिः

ते ऽबिभयुरिमं नो दृष्ट्वा मनुष्याश्च ऋषयश्चानुप्रज्ञास्यन्तीति ।

Haug

They were afraid that Men and Ṛiṣis, after having seen their sacrifice (by means of which they ascended to heaven), might come after (they had gone), and inquire (whether they could not obtain some sacrificial knowledge).

मूलम्

ते ऽबिभयुरिमं नो दृष्ट्वा मनुष्याश्च ऋषयश्चानुप्रज्ञास्यन्तीति ।

विश्वास-प्रस्तुतिः

तं वै यूपेनैवायोपयंस्तम् ।

Haug

They debarred them[1] (from obtaining such a knowledge) by means of the Yûpa, i.e., the sacrificial post.

Haug - Notes

[1]The term is : yoyûpayan, which word is only a derivation from yûpa, and proves, in fact, nothing for the etymology of the latter. The author had no doubt the root (yu “to avert, prevent”) in view. It is possible that the word is ultimately to be traced to this root. The Yûpa itself is a high wooden post, decorated with ribands and erected before the Uttarâ Vedi. The sacrificial animal is tied to it.

मूलम्

तं वै यूपेनैवायोपयंस्तम् ।

विश्वास-प्रस्तुतिः

यद्यूपेनैवायोपयंस्तद्यूपस्य यूपत्वम् ।

Haug

Thence the Yûpa is called so (from yoyûpayan, they debarred).

मूलम्

यद्यूपेनैवायोपयंस्तद्यूपस्य यूपत्वम् ।

विश्वास-प्रस्तुतिः

तमवाचीनाग्रं निमित्योर्ध्वा उदायन् ।

Haug

The gods when going up to the celestial world, struck the Yûpa in (the earth), turning its points downwards.

मूलम्

तमवाचीनाग्रं निमित्योर्ध्वा उदायन् ।

विश्वास-प्रस्तुतिः

ततो वै मनुष्याश्च ऋषयश्च देवानां यज्ञवास्त्वभ्यायन्यज्ञस्य किंचिदेषिष्यामः प्रज्ञात्या इति ।

Haug

Thereupon Men and Ṛiṣis came to the spot where the gods had performed their sacrifice, thinking, that they might obtain some information (about the sacrifice).

मूलम्

ततो वै मनुष्याश्च ऋषयश्च देवानां यज्ञवास्त्वभ्यायन्यज्ञस्य किंचिदेषिष्यामः प्रज्ञात्या इति ।

विश्वास-प्रस्तुतिः

ते वै यूपमेवाविन्दन्नवाचीनाग्रं निमितम् ।

Haug

They found only the Yûpa struck in (the earth), with its point turned downwards.

मूलम्

ते वै यूपमेवाविन्दन्नवाचीनाग्रं निमितम् ।

विश्वास-प्रस्तुतिः

ते ऽविदुरनेन वै देवा यज्ञमयूयुपन्निति ।

Haug

They learnt that the gods had by this means (i.e., by having struck in the earth the Yûpa) precluded the sacrificial secret (from being known).

मूलम्

ते ऽविदुरनेन वै देवा यज्ञमयूयुपन्निति ।

विश्वास-प्रस्तुतिः

तमुत्खायोर्ध्वं न्यमिन्वन् ।

Haug

They dug the Yûpa out, and turned its points upwards,

मूलम्

तमुत्खायोर्ध्वं न्यमिन्वन् ।

विश्वास-प्रस्तुतिः

ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकम् ।

Haug

whereupon they got aware of the sacrifice, and beheld (consequently), the celestial world.

मूलम्

ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकम् ।

विश्वास-प्रस्तुतिः

तद्यद्यूप ऊर्ध्वो निमीयते यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै ।

Haug

That is the reason that the Yûpa is erected with its point turned upwards (it is done), in order to get aware of the sacrifice, and to behold the celestial world.

मूलम्

तद्यद्यूप ऊर्ध्वो निमीयते यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै ।

विश्वास-प्रस्तुतिः

वज्रो वा एष यद्यूपः सो ऽष्टाश्रिः कर्तव्यो ऽष्टाश्रिर्वै वज्रस्तं तम् ।

Haug

This Yûpa is a weapon. Its point must have eight edges. For a weapon (or iron club) has eight edges.

मूलम्

वज्रो वा एष यद्यूपः सो ऽष्टाश्रिः कर्तव्यो ऽष्टाश्रिर्वै वज्रस्तं तम् ।

विश्वास-प्रस्तुतिः

प्रहरति द्विषते भ्रातृव्याय वधं यो ऽस्य स्तृत्यस्तस्मै स्तर्तवै ।

Haug

Whenever he strikes with it an enemy or adversary, he kills him. (This weapon serves) to put down him (every one) who is to be put down by him (the sacrificer).

मूलम्

प्रहरति द्विषते भ्रातृव्याय वधं यो ऽस्य स्तृत्यस्तस्मै स्तर्तवै ।

विश्वास-प्रस्तुतिः

वज्रो वै यूपः स एष द्विषतो वध उद्यतस्तिष्ठति ।

Haug

The Yûpa is a weapon which stands erected (being ready) to slay an enemy.

मूलम्

वज्रो वै यूपः स एष द्विषतो वध उद्यतस्तिष्ठति ।

विश्वास-प्रस्तुतिः

तस्माद्धाप्येतर्हि यो द्वेष्टि तस्याप्रियम्भवत्यमुष्यायं यूपो ऽमुष्यायं यूप इति दृष्ट्वा ।

Haug

Thence an enemy (of the sacrificer) who might be present (at the sacrifice) comes out ill after having seen the Yûpa of such or such one.

मूलम्

तस्माद्धाप्येतर्हि यो द्वेष्टि तस्याप्रियम्भवत्यमुष्यायं यूपो ऽमुष्यायं यूप इति दृष्ट्वा ।

विश्वास-प्रस्तुतिः

खादिरं यूपं कुर्वीत स्वर्गकामः ।

Haug

He who desires heaven, ought to make his Yûpa of Khâdira wood.

मूलम्

खादिरं यूपं कुर्वीत स्वर्गकामः ।

विश्वास-प्रस्तुतिः

खादिरेण वै यूपेन देवाः स्वर्गं लोकमजयन् ।

Haug

For the gods conquered the celestial world by means of a Yûpa made of Khâdira wood.

मूलम्

खादिरेण वै यूपेन देवाः स्वर्गं लोकमजयन् ।

विश्वास-प्रस्तुतिः

तथैवैतद्यजमानः खादिरेण यूपेन स्वर्गं लोकं जयति ।

Haug

In the same way, the sacrificer conquers the celestial world by means of a Yûpa made of Khâdira wood.

मूलम्

तथैवैतद्यजमानः खादिरेण यूपेन स्वर्गं लोकं जयति ।

विश्वास-प्रस्तुतिः

बैल्वं यूपं कुर्वीतान्नाद्यकामः पुष्टिकामः ।

Haug

He who desires food and wishes to grow fat, ought to make his Yûpa of Bilva wood.

मूलम्

बैल्वं यूपं कुर्वीतान्नाद्यकामः पुष्टिकामः ।

विश्वास-प्रस्तुतिः

समांसमां वै बिल्वो गृभीतस्तदन्नाद्यस्य रूपमा मूलाच्छाखाभिरनुचितस्तत्पुष्टेः ।

Haug

For the Bilva tree bears fruits every year; it is the symbol of fertility; for it increases (every year) in size from the roots up to the branches, therefore it is a symbol of fatness.

मूलम्

समांसमां वै बिल्वो गृभीतस्तदन्नाद्यस्य रूपमा मूलाच्छाखाभिरनुचितस्तत्पुष्टेः ।

विश्वास-प्रस्तुतिः

पुष्यति प्रजां च पशूंश्च य एवं विद्वान्बैल्वं यूपं कुरुते ।

Haug

He who having such a knowledge makes his Yûpa of Bilva wood, makes fat his children and cattle.

मूलम्

पुष्यति प्रजां च पशूंश्च य एवं विद्वान्बैल्वं यूपं कुरुते ।

विश्वास-प्रस्तुतिः

यदेव बैल्वाम्बिल्वं ज्योतिरिति वा आचक्षते ।

Haug

As regards the Yûpa made of Bilva wood (it is further to be remarked, that) they call “light” bilva.

मूलम्

यदेव बैल्वाम्बिल्वं ज्योतिरिति वा आचक्षते ।

विश्वास-प्रस्तुतिः

ज्योतिः स्वेषु भवति श्रेष्ठः स्वानाम्भवति य एवं वेद ।

Haug

He who has such a knowledge, becomes a light among his own people, the most distinguished among his own people.

मूलम्

ज्योतिः स्वेषु भवति श्रेष्ठः स्वानाम्भवति य एवं वेद ।

विश्वास-प्रस्तुतिः

पालाशं यूपं कुर्वीत तेजस्कामो ब्रह्मवर्चसकामः ।

Haug

He who desires beauty and sacred knowledge ought to make his Yûpa of Palâśa wood.

मूलम्

पालाशं यूपं कुर्वीत तेजस्कामो ब्रह्मवर्चसकामः ।

विश्वास-प्रस्तुतिः

तेजो वै ब्रह्मवर्चसं वनस्पतीनाम्पलाशः ।

Haug

For the Palâśa is among the trees beauty and sacred knowledge.

मूलम्

तेजो वै ब्रह्मवर्चसं वनस्पतीनाम्पलाशः ।

विश्वास-प्रस्तुतिः

तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्पालाशं यूपं कुरुते ।

Haug

He who having such a knowledge makes his Yûpa of Palâśa wood, becomes beautiful and acquires sacred knowledge.

मूलम्

तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्पालाशं यूपं कुरुते ।

विश्वास-प्रस्तुतिः

यदेव पालाशाम् सर्वेषां वा एष वनस्पतीनां योनिर्यत्पलाशः ।

Haug

As regards the Yûpa made of Palâśa wood (there is further to be remarked, that) the Palâśa is the womb of all trees.

मूलम्

यदेव पालाशाम् सर्वेषां वा एष वनस्पतीनां योनिर्यत्पलाशः ।

विश्वास-प्रस्तुतिः

तस्मात्पलाशस्यैव पलाशेनाचक्षते ऽमुष्य पलाशममुष्य पलाशमिति ।

Haug

Thence they speak on account of the palâśam (foliage) of the Palâśa tree, of the palâśam (foliage) of this or that tree (i.e., they call the foliage of every tree palâśam).

मूलम्

तस्मात्पलाशस्यैव पलाशेनाचक्षते ऽमुष्य पलाशममुष्य पलाशमिति ।

विश्वास-प्रस्तुतिः

सर्वेषां हास्य वनस्पतीनां काम उपाप्तो भवति य एवं वेद ।

Haug

He who has such a knowledge obtains (the gratification of) any desire he might have regarding all trees (i.e., he obtains from all trees anything he might wish for).

मूलम्

सर्वेषां हास्य वनस्पतीनां काम उपाप्तो भवति य एवं वेद ।