यज्ञेन वै देवा ऊर्ध्वाः स्वर्गं लोकमायंस्तेऽबिभयुरिमं नो दृष्ट्वा मनुष्याश्च ऋषयश्चानुप्रज्ञास्यन्तीति तं वै यूपेनैवायोपयंस्तं यद्यूपेनैवायोपयंस्तद्यूपस्य यूप-त्वं तमवाचीनाग्रं निमित्योर्ध्वा उदायंस्ततो वै मनुष्याश्च ऋषयश्च देवानां यज्ञवास्त्वभ्यायन्यज्ञस्य किंचिदेषिष्यामः प्रज्ञात्या इति ते वै यूपमेवा-विन्दन्नवाचीनाग्रं निमितं तेऽविदुरनेन वै देवा यज्ञमयूयुपन्निति तमुत्खायोर्ध्वं न्यमिन्वंस्ततो वै ते प्र यज्ञमजानन्प्र स्वर्गं लोकं तद्यद्यूप ऊर्ध्वो निमीयते यज्ञस्य प्रज्ञात्यै स्वर्गस्य लोकस्यानुख्यात्यै वज्रो वा एष यद्यूपः सोऽष्टाश्रिः कर्त-व्योऽष्टाश्रिर्वै वज्रस्तं-तम्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै वज्रो वै यूपः स एष द्विषतो वध उद्यतस्तिष्ठति तस्माद्धाप्येतर्हि यो द्वेष्टि तस्याप्रियम्भवत्यमुष्यायं यूपोऽमुष्यायं यूप इति दृष्ट्वा खादिरं यूपं कुर्वीत स्वर्गकामः खादिरेण वै यूपेन देवाः स्वर्गं लोकमजयंस्तथैवैतद्यजमानः खा-दिरेण यूपेन स्वर्गं लोकं जयति बैल्वं यूपं कुर्वीतान्नाद्यकामः पुष्टिकामः समांसमां वै बिल्वो गृभीतस्तदन्नाद्यस्य रूपमा मूलाच्छाखाभिरनुचितस्तत्पुष्टेः पुष्यति प्रजां च पशूंश्च य एवं विद्वान्बैल्वं यूपं कुरुते यदेव बैल्वाम्बिल्वं ज्योतिरिति वा आचक्षते ज्योतिः स्वेषु भवति श्रेष्ठः स्वानाम्भवति य एवं वेद पालाशं यूपं कुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो वै ब्रह्मवर्चसं वनस्पतीनाम्पलाशस्तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्पालाशं यूपं कुरुते यदेव पालाशाम् सर्वेषां वा एष वनस्पतीनां योनिर्यत्पलाशस्तस्मा-त्पलाशस्यैव पलाशेनाचक्षतेऽमुष्य पलाशममुष्य पलाशमिति सर्वेषां हास्य
वनस्पतीनां काम उपाप्तो भवति य एवं वेद १