षट्पदं तूष्णींशंसं शंसति षड्वा ऋतव ऋतूनेव तत्कल्पयत्यृतूनप्येति द्वा-दशपदाम्पुरोरुचं शंसाति द्वादश वै मासा मासानेव तात्कल्पयति मासानप्येति प्र वो देवायाग्नय इति शंसत्यन्तरिक्षं वै प्रान्तरिक्षं हीमानि सर्वाणि भूतान्यनुप्रयन्त्यन्तरिक्षमेव तत्कल्पयत्यन्तरिक्षमप्येति दीदिवांसमपूर्व्यमिति शंसत्यसौ वै दीदय योऽसौ तपत्येतस्माद्धि न किं चन पूर्वमस्त्येतमेव तत्कल्पयत्येतमप्येति स नः शर्माणि वीतय इति शंसत्यग्निर्वै शर्मान्यन्नाद्यानि यछत्यग्निमेव तत्कल्पयत्यग्निमप्येत्यु त नो ब्रह्मन्नविष इति शंसति चन्द्र मा वै ब्रह्म चन्द्र मसमेव तत्कल्पयति चन्द्र मसमप्येति स यन्ता विप्र एषामिति शंसति वायुर्वै यन्ता वायुना हीदं यतमन्तरिक्षं न समृछति वायुमेव तत्कल्पयति वायुमप्येत्यृतावा यस्य रोदसी इति शंसति द्यावापृथिवी वै रोदसी द्या-वापृथिवी एव तत्कल्पयति द्यावापृथिवी अप्येति नू नो रास्वो सह-स्रवत्तोकवत्पुष्टिमद्वस्वित्युत्तमया परिदधाति संवत्सरो वै समस्तः सह-स्रवांस्तोकवान्पुष्टिमान्संवत्सरमेव तत्समस्तं कल्पयति संवत्सरं सम-स्तमप्येति याज्यया यजति वृष्टिर्वै याज्या विद्युदेव विद्युद्धीदं वृष्टिमन्नाद्यं सम्प्रयछति विद्युतमेव तत्कल्पयति विद्युतमप्येति स एवं विद्वानेतन्मयो
देवतामयो भवति भवति ४१
५
इति द्वितीयपञ्चिका समाप्ता