४१

विश्वास-प्रस्तुतिः

षट्पदं तूष्णींशंसं शंसति ।

Haug

(The Meaning of the Several Verses of the Ajya Sūkta.)

He repeats the “silent praise” in six padas.

मूलम्

षट्पदं तूष्णींशंसं शंसति ।

विश्वास-प्रस्तुतिः

षड्वा ऋतव ।

Haug

There are six seasons.

मूलम्

षड्वा ऋतव ।

विश्वास-प्रस्तुतिः

ऋतूनेव तत्कल्पयत्यृतूनप्येति ।

Haug

By doing so, he makes the seasons and enters them.

मूलम्

ऋतूनेव तत्कल्पयत्यृतूनप्येति ।

विश्वास-प्रस्तुतिः

द्वादशपदां पुरोरुचं शंसाति ।

Haug

He repeats the Puroruk in twelve padas.

मूलम्

द्वादशपदां पुरोरुचं शंसाति ।

विश्वास-प्रस्तुतिः

द्वादश वै मासा ।

Haug

There are twelve months.

मूलम्

द्वादश वै मासा ।

विश्वास-प्रस्तुतिः

मासानेव तात्कल्पयति मासानप्येति ।

Haug

By doing so, he makes the months and enters them.

मूलम्

मासानेव तात्कल्पयति मासानप्येति ।

विश्वास-प्रस्तुतिः

प्र वो देवायाग्नय इति शंसति ।

Haug

He repeats, pra vo devāya[26] (3, 13).

Haug - Notes

[26]The Ajya-sûkta (3, 13), which has been explained in the preceding chapter, is here explained again.

मूलम्

प्र वो देवायाग्नय इति शंसति ।

विश्वास-प्रस्तुतिः

अन्तरिक्षं वै प्र ।

Haug

Pra is the air.

मूलम्

अन्तरिक्षं वै प्र ।

विश्वास-प्रस्तुतिः

अन्तरिक्षं हीमानि सर्वाणि भूतान्यनुप्रयन्ति ।

Haug

For all beings go after air.

मूलम्

अन्तरिक्षं हीमानि सर्वाणि भूतान्यनुप्रयन्ति ।

विश्वास-प्रस्तुतिः

अन्तरिक्षमेव तत्कल्पयत्यन्तरिक्षमप्येति ।

Haug

By repeating this verse, he makes the air and enters it.

मूलम्

अन्तरिक्षमेव तत्कल्पयत्यन्तरिक्षमप्येति ।

विश्वास-प्रस्तुतिः

दीदिवांसमपूर्व्यमिति शंसति ।

Haug

He repeats, dîdivāṁsam.

मूलम्

दीदिवांसमपूर्व्यमिति शंसति ।

विश्वास-प्रस्तुतिः

असौ वै दीदाय यो ऽसौ तपति ।

Haug

The sun is dīdāya,

मूलम्

असौ वै दीदाय यो ऽसौ तपति ।

विश्वास-प्रस्तुतिः

एतस्माद्धि न किंचन पूर्वमस्ति ।

Haug

nothing is earlier[27] than the sun.

Haug - Notes

[27]This is an explanation of the term apûrvyam in the verse in question.

मूलम्

एतस्माद्धि न किंचन पूर्वमस्ति ।

विश्वास-प्रस्तुतिः

एतमेव तत्कल्पयत्येतमप्येति ।

Haug

By repeating this verse, he makes the sun and enters it.

मूलम्

एतमेव तत्कल्पयत्येतमप्येति ।

विश्वास-प्रस्तुतिः

स नः शर्माणि वीतय इति शंसति ।

Haug

He repeats, sa naḥ śarmāṇi vītaye.

मूलम्

स नः शर्माणि वीतय इति शंसति ।

विश्वास-प्रस्तुतिः

अग्निर्वै शर्माण्यन्नाद्यानि यच्छति ।

Haug

Śarmāṇi (places of refuge) means Agni. He, gives nourishment.

मूलम्

अग्निर्वै शर्माण्यन्नाद्यानि यच्छति ।

विश्वास-प्रस्तुतिः

अग्निमेव तत्कल्पयत्यग्निमप्येति ।

Haug

By repeating this verse, he makes Agni and enters Agni.

मूलम्

अग्निमेव तत्कल्पयत्यग्निमप्येति ।

विश्वास-प्रस्तुतिः

उत नो ब्रह्मन्नविष इति शंसति ।

Haug

He repeats, uta no brahman.

मूलम्

उत नो ब्रह्मन्नविष इति शंसति ।

विश्वास-प्रस्तुतिः

चन्द्रमा वै ब्रह्म ।

Haug

The moon is Brahma.

मूलम्

चन्द्रमा वै ब्रह्म ।

विश्वास-प्रस्तुतिः

चन्द्रमसमेव तत्कल्पयति चन्द्रमसमप्येति ।

Haug

By repeating this verse, he makes the moon and enters her.

मूलम्

चन्द्रमसमेव तत्कल्पयति चन्द्रमसमप्येति ।

विश्वास-प्रस्तुतिः

स यन्ता विप्र एषामिति शंसति ।

Haug

He repeats, sa yantā.

मूलम्

स यन्ता विप्र एषामिति शंसति ।

विश्वास-प्रस्तुतिः

वायुर्वै यन्ता ।

Haug

Vāyu is yantā (the restrainer);

मूलम्

वायुर्वै यन्ता ।

विश्वास-प्रस्तुतिः

वायुना हीदं यतमन्तरिक्षं न समृच्छति ।

Haug

for by Vāyu (wind) the universe is kept up, who prevents the air from gathering in the atmosphere only.

मूलम्

वायुना हीदं यतमन्तरिक्षं न समृच्छति ।

विश्वास-प्रस्तुतिः

वायुमेव तत्कल्पयति वायुमप्येति ।

Haug

By repeating this verse, he makes Vāyu and enters him.

मूलम्

वायुमेव तत्कल्पयति वायुमप्येति ।

विश्वास-प्रस्तुतिः

ऋतावा यस्य रोदसी इति शंसति ।

Haug

He repeats, ṛtāvā yasya rodasī.

मूलम्

ऋतावा यस्य रोदसी इति शंसति ।

विश्वास-प्रस्तुतिः

द्यावापृथिवी वै रोदसी ।

Haug

Heaven and earth are the two rodas.

मूलम्

द्यावापृथिवी वै रोदसी ।

विश्वास-प्रस्तुतिः

द्यावापृथिवी एव तत्कल्पयति द्यावापृथिवी अप्येति ।

Haug

Thus he makes heaven and earth and enters them.

मूलम्

द्यावापृथिवी एव तत्कल्पयति द्यावापृथिवी अप्येति ।

विश्वास-प्रस्तुतिः

नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वस्वित्युत्तमया परिदधाति ।

Haug

He concludes with the verse, nû no rāsva.

मूलम्

नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वस्वित्युत्तमया परिदधाति ।

विश्वास-प्रस्तुतिः

संवत्सरो वै समस्तः सहस्रवांस्तोकवान्पुष्टिमान् ।

Haug

The year is a whole with thousand-fold gifts, produces, and well-being.

मूलम्

संवत्सरो वै समस्तः सहस्रवांस्तोकवान्पुष्टिमान् ।

विश्वास-प्रस्तुतिः

संवत्सरमेव तत्समस्तं कल्पयति संवत्सरं समस्तमप्येति ।

Haug

Thus he makes the year as a whole and enters it.

मूलम्

संवत्सरमेव तत्समस्तं कल्पयति संवत्सरं समस्तमप्येति ।

विश्वास-प्रस्तुतिः

याज्यया यजति ।

Haug

He repeats a Yājyā mantra.

मूलम्

याज्यया यजति ।

विश्वास-प्रस्तुतिः

वृष्टिर्वै याज्या विद्युदेव ।

Haug

The Yājyā is rain (and rain is) lightning.

मूलम्

वृष्टिर्वै याज्या विद्युदेव ।

विश्वास-प्रस्तुतिः

विद्युद्धीदं वृष्टिमन्नाद्यं सम्प्रयछति ।

Haug

For lightning (produces) rain, and rain gives food.

मूलम्

विद्युद्धीदं वृष्टिमन्नाद्यं सम्प्रयछति ।

विश्वास-प्रस्तुतिः

विद्युतमेव तत्कल्पयति विद्युतमप्येति ।

Haug

Thus he makes lightning and enters it.

मूलम्

विद्युतमेव तत्कल्पयति विद्युतमप्येति ।

विश्वास-प्रस्तुतिः

स एवं विद्वानेतन्मयो देवतामयो भवति भवति ।

Haug

He who has such a knowledge, becomes identified with (all) these things[28] and with the deities.

Haug - Notes

[28]Such as the seasons, months, Agni, &c., which are severally mentioned in this paragraph.

मूलम्

स एवं विद्वानेतन्मयो देवतामयो भवति भवति ।