प्र वो देवायाग्नय इति शंसति प्राणो वै प्र प्राणं हीमानि सर्वाणि भूतान्यनुप्रयन्ति प्राणमेव तत्सम्भावयति प्रणं संस्कुरुते दीदिवंसमपूर्व्यमिति शंसति मनो वै दीदाय मनासो हि न किं चन पूर्वमस्ति मन एव तत्सम्भावयति मनः संस्कुरुते स नः शर्माणि वीतय इति शंसति वाग्वै शर्म तस्माद्वाचानुवदन्तमाह शर्मव-दास्मा अयांसीति वाचमेव तत्सम्भावयति वाचं संस्कुरुत उत नो ब्रह्मन्नविष इति शंसति श्रोत्रं वै ब्रह्म श्रोत्रेणो हि ब्रह्म शृणोति श्रोत्रे ब्रह्म प्रतिष्ठितं श्रोत्रमेव तत्सम्भावयति श्रोत्रं संस्कुरुते स यन्ता विप्र एषामिति शंसत्यपानो वै यन्तापानेन ह्ययं यतः प्राणो न पराङ्भवत्यपानमेव तत्सम्भावयत्यपानं संस्कुरुत ऋतावा यस्य रोदसी इति शंसति चक्षुर्वा ऋतं तस्माद्यतरो विवदमानयोराहाहमनुष्ठ्या चक्षुषादर्शमिति तस्य श्रद्दधति चक्षुरेव तत्स-म्भावयति चक्षुः संस्कुरुते नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वस्वित्युत्तमया परिदधात्यात्मा वै समस्तः सहस्रवांस्तोकवान्पुष्टिमानात्मानमेव तत्समस्तं सम्भावयत्यात्मानं समस्तं संस्कुरुते याज्यया यजति प्रत्तिर्वै याज्या पुण्यैव लक्ष्मीः पुण्यामेव तल्लक्ष्मीं सम्भावयति पुण्यां लक्ष्मीं संस्कुरुते स एवं विद्वांश्छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः सम्भूय देवता अप्येति य एवं वेद यो वै तद्वेद यथा छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः सम्भूयो देवता
अप्येति तत्सुविदितमित्यध्यात्ममथाधिदैवतम् ४०