आहूय तूष्णींशंसं शंसति रेतस्तत्सिक्तम्विकरोति सिक्तिर्वा अग्रेऽथ विकृतिरुपांशु तूष्णींशंसं शंसत्युपांश्विव वै रेतसः सिक्तिस्तिर इव तूष्णींशंसं शंसति तिर इव वै रेतांसि विक्रियन्ते षट्पदं तूष्णींशंसं शंसति षड्विधो वै पुरुषः षळङ्ग आत्मानमेव तत्षड्विधं षळङ्गं विकरोति तुष्णींशंसं शस्त्वा पुरोरुचं शंसति रेतस्तद्विकृतम्प्रजनयति विकृतिर्वा अग्रेऽथ जातिरुच्चैः पुरोरुचं शंसत्युच्चैरेवैनं तत्प्रजनयति द्वादशपदाम्पुरोरुचां शंसति द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः सोऽस्य सर्वस्य प्रजनयिता स योऽस्य सर्वस्य प्रजनयिता स एवैनं तत्प्रजया पशुभिः प्रजनयति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद जातवेदस्याम्पुरोरुचं शंसति जातवेदोन्यङ्गां तदाहुर्य-त्तृतीयसवनमेव जातवेदस आयतनमथ कस्मात्प्रातःसवने जातवेदस्या-म्पुरोरुचं शंसतीति प्राणो वै जातवेदाः स हि जातानां वेद यावतां वै स जातानां वेद ते भवन्थि येषामु न वेद किमु ते स्युर्यो वा आज्य आत्मसंस्कृतिं वेद
तत्सुविदितम् ३९