विश्वास-प्रस्तुतिः
आहूय तूष्णींशंसं शंसति ।
Haug
(On the Meaning of the Six Members of the “Silent Praise,” and the Twelve Members of the Puroruk. Why Jātavedās is mentioned in the Puroruk. The Meaning of the Ājya-śūkta.)
Having called śoṁsāvom, he recites the “silent praise.”
मूलम्
आहूय तूष्णींशंसं शंसति ।
विश्वास-प्रस्तुतिः
रेतस्तत्सिक्तं विकरोति ।
Haug
This transforms the seed (represented by the Japa).
मूलम्
रेतस्तत्सिक्तं विकरोति ।
विश्वास-प्रस्तुतिः
सिक्तिर्वा अग्रे ऽथ विकृतिः ।
Haug
First the effusion of seed takes place; then follows its transformation.
मूलम्
सिक्तिर्वा अग्रे ऽथ विकृतिः ।
विश्वास-प्रस्तुतिः
उपांशु तूष्णींशंसं शंसति ।
Haug
He repeats the “silent praise” without proper articulation of the voice[16]
Haug - Notes
[16]This is called: tira iva, i.e., across as it were.
मूलम्
उपांशु तूष्णींशंसं शंसति ।
विश्वास-प्रस्तुतिः
उपांश्विव वै रेतसः सिक्तिः ।
Haug
(in order to make its proper words unintelligible even to those who stand nearest)
मूलम्
उपांश्विव वै रेतसः सिक्तिः ।
विश्वास-प्रस्तुतिः
तिर इव तूष्णींशंसं शंसति ।
Haug
He repeats the “silent praise” without proper articulation of the voice (in order to make its proper words unintelligible even to those who stand nearest).
मूलम्
तिर इव तूष्णींशंसं शंसति ।
विश्वास-प्रस्तुतिः
तिर इव वै रेतांसि विक्रियन्ते ।
Haug
For, in the same way, the seeds are transformed (going across one another).
मूलम्
तिर इव वै रेतांसि विक्रियन्ते ।
विश्वास-प्रस्तुतिः
षट्पदं तूष्णींशंसं शंसति ।
Haug
He repeats the “silent praise” in six padas[17] (i.e., stopping six times).
Haug - Notes
[17]Its six parts are as follows: (1) भूरग्निर्ज्योतिर् (2) ज्योतिरग्निर् (3) इन्द्रोज्योतिर्भुवो (4) ज्योतिरिन्द्रोम् (5) सूर्योज्योतिर् (6) ज्योतिः स्वःसूर्योम्. See Âśval. S. 5, 8. Properly speaking, the “silent praise” consists only of three padas. See Ait. Br. 2, 31.
मूलम्
षट्पदं तूष्णींशंसं शंसति ।
विश्वास-प्रस्तुतिः
षड्विधो वै पुरुषः षळङ्ग ।
Haug
For man is six-fold, having six limbs.
मूलम्
षड्विधो वै पुरुषः षळङ्ग ।
विश्वास-प्रस्तुतिः
आत्मानमेव तत्षड्विधं षळङ्गं विकरोति ।
Haug
Thus he produces by transformation the soul as six-fold, consisting of six parts.
मूलम्
आत्मानमेव तत्षड्विधं षळङ्गं विकरोति ।
विश्वास-प्रस्तुतिः
तुष्णींशंसं शस्त्वा पुरोरुचं शंसति ।
Haug
After having repeated the “silent praise,” he repeats the Puroruk (Nivid 2, 34).
मूलम्
तुष्णींशंसं शस्त्वा पुरोरुचं शंसति ।
विश्वास-प्रस्तुतिः
रेतस्तद्विकृतं प्रजनयति ।
Haug
Thus he brings forth (as a birth) the seed which had been transformed.
मूलम्
रेतस्तद्विकृतं प्रजनयति ।
विश्वास-प्रस्तुतिः
विकृतिर्वा अग्रे ऽथ जातिः ।
Haug
The transformation (of the seed) occurs first; then follows birth.
मूलम्
विकृतिर्वा अग्रे ऽथ जातिः ।
विश्वास-प्रस्तुतिः
उच्चैः पुरोरुचं शंसति ।
Haug
He repeats the Paroruk with a loud voice.
मूलम्
उच्चैः पुरोरुचं शंसति ।
विश्वास-प्रस्तुतिः
उच्चैरेवैनं तत्प्रजनयति ।
Haug
Thus he brings him (the mystical body of the sacrificer) forth with a loud voice (crying).
मूलम्
उच्चैरेवैनं तत्प्रजनयति ।
विश्वास-प्रस्तुतिः
द्वादशपदां पुरोरुचं शंसति ।
Haug
He repeats it in twelve padas.
मूलम्
द्वादशपदां पुरोरुचं शंसति ।
विश्वास-प्रस्तुतिः
द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः ।
Haug
The year has twelve months; Prajāpati is the year;
मूलम्
द्वादश वै मासाः संवत्सरः संवत्सरः प्रजापतिः ।
विश्वास-प्रस्तुतिः
सो ऽस्य सर्वस्य प्रजनयिता ।
Haug
he is the producer of the whole universe.
मूलम्
सो ऽस्य सर्वस्य प्रजनयिता ।
विश्वास-प्रस्तुतिः
स यो ऽस्य सर्वस्य प्रजनयिता स एवैनं तत्प्रजया पशुभिः प्रजनयति प्रजात्यै ।
Haug
He who is the producer of the whole universe, produces also him (the sacrificer) and (provides him) with offspring and cattle for propagation.
मूलम्
स यो ऽस्य सर्वस्य प्रजनयिता स एवैनं तत्प्रजया पशुभिः प्रजनयति प्रजात्यै ।
विश्वास-प्रस्तुतिः
प्रजायते प्रजया पशुभिर्य एवं वेद ।
Haug
He who has such a knowledge, prospers in offspring and cattle.
मूलम्
प्रजायते प्रजया पशुभिर्य एवं वेद ।
विश्वास-प्रस्तुतिः
जातवेदस्यां पुरोरुचं शंसति जातवेदोन्यङ्गाम् ।
Haug
He repeats a Puroruk addressed to Jātavedas[18] (Agni), the word Jātavedas occurring in the last (twelfth part of it).
Haug - Notes
[18]This refers to the last pada of the Puroruk or Nivid, where Agni is mentioned by the name of Jâtavedâs. See 2, 34.
मूलम्
जातवेदस्यां पुरोरुचं शंसति जातवेदोन्यङ्गाम् ।
विश्वास-प्रस्तुतिः
तदाहुर्यत्तृतीयसवनमेव जातवेदस आयतनमथ कस्मात्प्रातःसवने जातवेदस्यां पुरोरुचं शंसतीति ।
Haug
They ask, Why do they repeat at the morning libation a Puroruk addressed to Jātavedas, whereas this deity has its proper place at the evening libation?
मूलम्
तदाहुर्यत्तृतीयसवनमेव जातवेदस आयतनमथ कस्मात्प्रातःसवने जातवेदस्यां पुरोरुचं शंसतीति ।
विश्वास-प्रस्तुतिः
प्राणो वै जातवेदाः ।
Haug
(The answer is) Jātavedās is life.
मूलम्
प्राणो वै जातवेदाः ।
विश्वास-प्रस्तुतिः
स हि जातानां वेद ।
Haug
For he knows (veda) all that are born.
मूलम्
स हि जातानां वेद ।
विश्वास-प्रस्तुतिः
यावतां वै स जातानां वेद ते भवन्ति ।
Haug
As many as he knows of are born (jātānām), so many (only) exist.[19]
Haug - Notes
[19]This is an explanation of the name “Jâtavedâs.”
मूलम्
यावतां वै स जातानां वेद ते भवन्ति ।
विश्वास-प्रस्तुतिः
येषामु न वेद किमु ते स्युः ।
Haug
How could those exist of whom he does not know (that they are born ?)
मूलम्
येषामु न वेद किमु ते स्युः ।
विश्वास-प्रस्तुतिः
यो वा आज्य आत्मसंस्कृतिं वेद तत्सुविदितम् ।
Haug
Whosoever (what sacrificer) knows that he himself is made a new man (by means of the Ajya Śastra), he has a good knowledge.
मूलम्
यो वा आज्य आत्मसंस्कृतिं वेद तत्सुविदितम् ।