३८

ओःतृजपं जपति रेतस्तत्सिञ्चत्युपांशु जपत्युपांश्विव वै रेतसः सिक्तिः पुराहावाज्जपति यद्वै किञ्चोर्ध्वमाहावाच्छस्त्रस्यैव तत्पराञ्चं चतुष्पद्यासीनम-भ्याह्वयते तस्मात्पराञ्चो भूत्वा चतुष्पादो रेतः सिञ्चन्ति सम्यङ्द्विपाद्भवति तस्मात्सम्यञ्चो भूत्वा द्विपादो रेतः सिञ्चन्ति पिता मातरिश्वेत्याह प्राणो वै पिता प्राणो मातरिश्वा प्राणो रेतो रेतस्तत्सिञ्चत्यछिद्रा पदा धा इति रेतो वा अछिद्र मातो ह्यछिद्रः सम्भवत्यछिद्रो क्था कवयः शंसन्निति ये वा अनूचानास्ते कवयस्त इदमछिद्रं रेतः प्रजनयन्नित्येव तदाह सोमो विश्वविन्नीथानि नेषद्बृहस्पति-रुक्थामदानि शंसिषदिति ब्रह्म वै बृहस्पतिः क्षत्रं सोमः स्तुतशस्त्राणि नीथानि चोक्थमदानि च दैवेन चैवैतद्ब्रह्मणा प्रसूतो दैवेन च क्षत्रेणोक्थानि शंसत्येतौ ह वा अस्य सर्वस्य प्रसवस्येशाते यदिदं किंच तद्यदेताभ्यामप्रसूतः करोत्यकृतं तदकृतमकरिति वै निन्दन्ति कृतमस्य कृतम्भवति नास्याकृतं कृतम्भवति य एवं वेद वागायुर्विश्वायुर्विश्वमायुरित्याह प्राणो वा आयुः प्राणो रेतो वाग्योनि-र्योनिं तदुपसंधाय रेतः सिञ्चति क इदं शंसिष्यति सैदं शंसिष्यतीत्याह प्रजापतिर्वै कः प्रजापतिः प्रजनयिष्यतीत्येव तदाह ३८