३७

देवरथो वा एष यद्यज्ञस्तस्यैतावन्तरौ रश्मी यदाज्यप्रउगे तद्यदाज्येन पवमानमनुशंसति प्रउगेणाज्यं देवरथस्यैव तदन्तरौ रश्मी विहरत्यलोभाय तामनुकृतिम्मनुष्यरथस्यैवान्तरौ रश्मी विहरन्त्यलोभाय नास्य देवरथो लुभ्यति न मनुष्यरथो य एवं वेद तदाहुर्यथा वाव स्तोत्रमेवं शस्त्रम्पावमानीषु सामगाः स्तुवत आग्नेयं होताज्यं शंसति कथमस्य पावमान्योऽनुशस्ता भवन्तीति यो वा अग्निः स पवमानस्तदप्येतदृषिणोक्तम् अग्निरृषिः पवमान इत्येवमु हास्याग्नेयीभिरेव प्रतिपद्यमानस्य पावमान्योऽनुशस्ता भवन्ति तादाहुर्यथा वाव स्तोत्रमेवं शस्त्रं गायत्रीषु सामगाः स्तुवत आनुष्टुभं होताज्यं शंसति कथमस्य गायत्र्योऽनुशस्ता भवन्तीति सम्पदेति ब्रूयत्सप्तैता अनुन्ष्टुभस्तास्त्रिः प्रथमया त्रिरुत्तमयैकादश भवन्ति विराद्याज्या द्वादशी न वा एकेनाक्षरेण छन्दांसि वियन्ति न द्वाभ्यां ताः षोळश गायत्र्यो भवन्त्येवमु हास्यानुष्टुब्भिरेव प्रति-पद्यमानस्य गायत्र्योऽनुशस्ता भवन्त्यग्न इन्द्र श्च दाशुषो दुरोण इत्याग्नेन्द्र् या यजति न वा एताविन्द्रा ग्नी सन्तौ व्यजयेतामाग्नेन्द्रौ वा एतौ सन्तौ व्यजयेतां तद्यदाग्नेन्द्र् या यजति विजित्या एव सा विराट्त्रयस्त्रिंसदक्षर भवति त्रयस्त्रिंशद्वै देवा अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च तत्प्रथम उक्थमुखे देवता अक्षरभाजः करोत्यक्षरम्-अक्षरमेव तद्देवता अनुप्रपिबन्ति देवपात्रेणैव तद्देवतास्तृप्यन्ति तदाहुर्यथा वाव शस्त्रमेवं याज्याग्नेयं होताज्यं शंसत्यथ कस्मादाग्नेन्द्र् या यजतीति या वा आग्नेन्द्र् यैन्द्रा ग्नी वै सा सेन्द्रा ग्नमेतदुक्थं ग्रहेण च तूष्णींशंसेन चेन्द्रा ग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यमस्य पातं धियेषितेत्यैन्द्रा ग्नमध्वर्युर्ग्राहं गृह्णाति भूरग्निर्ज्योतिर्ज्योति-रग्निरिन्द्रो ज्योतिर्भुवो ज्योतिरिन्द्रः सूर्यो ज्योतिर्ज्योतिः स्वः सूर्य इति होता

तूष्णींशंसं शंसति तद्यथैव शस्त्रमेवं याज्या ३७