३६

देवासुरा वा एषु लोकेषु समयतन्त ते वै देवाः सद एवायतनमकुर्वत तान्सदसोऽजयंस्त आग्नीध्रं सम्प्रापद्यन्त ते ततो न पराजयन्त तस्मादाग्नीध्र उपवसन्ति न सदस्याग्नीध्रे ह्यधारयन्त यदाग्नीध्रेऽधारयन्त तदाग्नीध्रस्याग्नीध्रत्वं तेषां वै देवानामसुराः सदस्यानग्नीन्निर्वापयां चक्रुस्ते देवा आग्नीध्रादेव सद-स्यानग्नीन्विहरन्त तैरसुररक्षांस्यपाघ्नत तथैवैतद्यजमाना आग्नीध्रादेव सदस्या-नग्नीन्विहरन्त्यसुररक्षांस्येव तदपघ्नते ते वै प्रातराज्यैरेवाजयन्त आयन्यदा-ज्यैरेवाजयन्त आयंस्तदाज्यानामाज्यत्वं तासां वै होत्राणामायतीनामाजयन्ती-नामछावाकीयाहीयत तस्यामिन्द्रा ग्नी अध्यास्तामिन्द्रा ग्नी वै देवानामोजिष्ठौ बलिष्ठौ सहिष्ठौ सत्तमौ पारयिष्णुतमौ तस्मादैन्द्रा ग्नमछावाकः प्रातःसवने शंसतीन्द्र ग्नी हि तस्यामध्यास्तां तस्मादु पुरस्तादन्ये होत्रकाः सदः प्रसर्पन्ति पश्चाछावाकः पश्चेव हि हीनोऽनुसंजिगमिषति तस्माद्यो ब्राह्मणो बह्वृचो

वीर्यवान्स्यात्सोऽस्याछावाकीयां कुर्यात्तेनैव साहीना भवति ३६