विश्वास-प्रस्तुतिः
प्र वो देवायाग्नय इत्यनुष्टुभः प्रथमे पदे विहरति ।
Haug
(On the Recitation of the Sûkta of the Ajya Śastra. The Peculiar Recitation of the First Verse Represents Copulation.)
(When the Hotar repeats) the (seven) Anuṣṭubh verses: pra vo devāya agnaye (3, 13), he separates the first pada (from the second one).
मूलम्
प्र वो देवायाग्नय इत्यनुष्टुभः प्रथमे पदे विहरति ।
विश्वास-प्रस्तुतिः
तस्मात्स्त्र्युरू विहरति ।
Haug
For a female divaricates her thighs (at the time of coitus).
मूलम्
तस्मात्स्त्र्युरू विहरति ।
विश्वास-प्रस्तुतिः
समस्यत्युत्तरे पदे ।
Haug
He joins the two last padas (when repeating the hymn).
मूलम्
समस्यत्युत्तरे पदे ।
विश्वास-प्रस्तुतिः
तस्मात्पुमानूरू समस्यति ।
Haug
For a male contracts his thighs (at the time of coitus).
मूलम्
तस्मात्पुमानूरू समस्यति ।
विश्वास-प्रस्तुतिः
तन्मिथुनम् ।
Haug
This (represents) copulation.
मूलम्
तन्मिथुनम् ।
विश्वास-प्रस्तुतिः
मिथुनमेव तदुक्थमुखे करोति प्रजात्यै ।
Haug
Thus he performs the act of copulation (in a mystical way) at the very beginning of the recitation (of the Ājya Śastra), in order to produce (offspring and cattle for the sacrificer).
मूलम्
मिथुनमेव तदुक्थमुखे करोति प्रजात्यै ।
विश्वास-प्रस्तुतिः
प्रजायते प्रजया पशुभिर्य एवं वेद ।
Haug
He who has such a knowledge, is blessed with the production of offspring and cattle.
मूलम्
प्रजायते प्रजया पशुभिर्य एवं वेद ।
विश्वास-प्रस्तुतिः
प्र वो देवायाग्नय इत्येवानुष्टुभः प्रथमे पदे विहरति ।
Haug
By separating, the two first padas when repeating (this hymn),
मूलम्
प्र वो देवायाग्नय इत्येवानुष्टुभः प्रथमे पदे विहरति ।
विश्वास-प्रस्तुतिः
वज्रमेव तत्परोवरीयांसं करोति ।
Haug
he thus makes the hindpart of the weapon (represented by the Ājya Śastra) very thick,
मूलम्
वज्रमेव तत्परोवरीयांसं करोति ।
विश्वास-प्रस्तुतिः
समस्यत्येवोत्तरे पदे ।
Haug
and by joining the two latter padas (of the hymn), he makes its forepart thin.
मूलम्
समस्यत्येवोत्तरे पदे ।
विश्वास-प्रस्तुतिः
आरम्भणतो वै वज्रस्याणिमा ऽथो दण्डस्याथो परशोः ।
Haug
(The same is the case with) an iron club or with an axe (that is to say, the forepart, the shaft is thin, and the (iron) part of them thick).
मूलम्
आरम्भणतो वै वज्रस्याणिमा ऽथो दण्डस्याथो परशोः ।
विश्वास-प्रस्तुतिः
वज्रमेव तत्प्रहरति द्विषते भ्रातृव्याय वधम् ।
Haug
Thus he strikes a blow with the weapon at his enemy and adversary.
मूलम्
वज्रमेव तत्प्रहरति द्विषते भ्रातृव्याय वधम् ।
विश्वास-प्रस्तुतिः
यो ऽस्य स्तृत्यस्तस्मै स्तर्तवै ।
Haug
Whatever (enemy) of his is to be put down, this weapon will accomplish it.
मूलम्
यो ऽस्य स्तृत्यस्तस्मै स्तर्तवै ।