३५

प्र वो देवायाग्नय इत्यनुष्टुभः प्रथमे पदे विहरति तस्मार्त्स्त्यूरू विहरति समस्यत्युत्तरे पदे तस्मात्पुमानूरू समस्यति तन्मिथुनम्मिथुनमेव तदुक्थमुखे करोति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद प्र वो देवायाग्नय इत्येवानुष्टुभः प्रथमे पदे विहरति वज्रमेव तत्परोवरीयांसं करोति सम-स्यत्येवोत्तरे पदे आरम्भणतो वै वज्रस्याणिमाथो दण्डस्याथो परशोर्वज्रमेव

तत्प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तर्तवै ३५