अग्निर्देवेद्ध इति शंसत्यसौ वा अग्निर्देवेद्ध एतं हि देवा इन्धत एतमेव तदेतस्मिँ ल्लोक आयातयत्यग्निर्मन्विद्ध इति शंसत्ययं वा अग्निर्मन्विद्ध इमं हि मनुष्या इन्धतेऽग्निमेव तदस्मिँ ल्लोक आयातयत्यग्निः सुषमिदिति शंसति वायुर्वा अग्निः सुषमिद्वायुर्हि स्वयमात्मानं समिन्द्धे स्वयमिदं सर्वं यदिदं किंच वायुमेव तदन्तरिक्षलोक आयातयति होता देववृत इति शंसत्यसौ वै होता देववृत एष हि सर्वतो देवैर्वृत एतमेव तदेतस्मिँ ल्लोक आयातयति होता मनुवृत इति शंसत्ययं वा अग्निर्होता मनुवृतोऽयं हि सर्वतो मनुष्यैर्वृतोऽग्निमेव तदस्मिँ ल्लोक आयातयति प्रणीर्यज्ञानामिति शंसति वायुर्वै प्रणीर्यज्ञानां यदा हि प्राणित्यथ यज्ञोऽथाग्निहोत्रं वायुमेव तदन्तरिक्षलोक आयातयति रथीरध्व-राणामिति शंसत्यसौ वै रथीरध्वराणामेष हि यथैतच्चरति रथीरिवैतमेव तदेतस्मिँ ल्लोक आयातयत्यतूर्तो होतेति शंसत्ययं वा अग्निरतूर्तो होतेमं ह न कश्चन तिर्यञ्चं तरत्यग्निमेव तदस्मिँ ल्लोक आयातयति तूर्णिर्हव्यवाळ् इति शंसति वायुर्वै तूर्णिर्हव्यवाड्वायुर्हीदं सर्वम्सद्यस्तरति यदिदं किंच वा-युर्देवेभ्यो हव्यं वहति वायुमेव तदौतरिक्षलोक आयातयत्या देवो देवा-न्वक्षदिति शंसत्यसौ वै देवो देवानावहत्येतमेव तदेतस्मिँ ल्लोक आयातयति यक्षदग्निर्देवो देवानिति शंसत्ययं वा अग्निर्देवो देवान्यजत्यग्निमेव तद-स्मिँ ल्लोक आयातयति सोऽध्वरा करति जातवेदा इति शंसति वायुर्वै जातवेदा वायुर्हीदं सार्वं करोति यदिदं किंच वायुमेव तदन्तरिक्षलोक
आयातयति ३४